This page has not been fully proofread.

६६
 
न्यायकोशः ।
 
अभाव: - १ ( पदार्थ: ) [क] असमवायत्वे सत्यसमवायः ( सर्व० पृ०
२३२ औलु०) । समवायमिन्नत्वे सति समवायशून्य इत्यर्थः । [ख]
भावमिन्नः प्रतियोगिज्ञानाधीनज्ञानविषयः । [ग] माध्वास्तु प्रथमप्रतीतौ
यः नास्ति इति प्रमाविषयः सः अभावः इत्याहुः (प्र० च० परि० पृ०४९ ) ।
अभावश्चतुर्विधः । प्रागभावः प्रध्वंसः अत्यन्ताभावः अन्योन्याभावश्चेति
( त० सं० ) । अभावपदार्थस्योपयोगमाह न्यायलीलावतीकारः अभावो
वक्तव्यो निःश्रेयसोपयोगित्वाद्भावप्रपञ्चवत् इति । कारणाभावे कार्याभावस्य
• सर्वमतसिद्धत्वादुपयोगित्वसिद्धिः ( न्या० ली० पृ० १-२ ) । अन्ये तु
 
अभावो द्विधा-संसर्गाभावः अन्योन्याभावः । आद्यस्त्रिविधः प्रागभावः
प्रध्वंसः अत्यन्ताभावः इति ( भा० प० श्लो० १२ ) ( त० को ०
२१) । द्वितीयस्त्वेकविध एवेति (मु० ११४१ ) । अत्र संसर्गाभावत्वं
च तादात्म्येतरसंसर्गावच्छिन्नप्रतियोगिताकाभावत्वमिति संप्रदायः ।
भेदेतराभावत्वमिति नव्याः (प० मा० ) । अत्रेदं बोध्यम्-
अभावश्च भावभिन्नः पदार्थः । तत्र भावत्वं च द्रव्यादिषट्रान्य-
तमत्वम् । अथ वा समवाय एकार्थसमवाय एतदन्यतरसंबन्धेन
• सत्तावत्त्वम् ( ल० व० २-३ ) । अभावलक्षणं चाभावत्वमेवेति
बोध्यम् । अभावविषये केचन नियमाः संभवन्ति । तत्र प्रथमः- अव
अच्छेदक मेद: अभावमेदनियामक इति । द्वितीयः - विशेषाभावकूटानां सामा
 

 
न्यधर्मावच्छिन्न प्रतियोगिताकत्वं स्वीक्रियत इति ( दीधि० २ ) ।
.तृतीयः- अभावप्रत्यक्षं प्रति योग्यानुपलब्धिः कारणम् । तथा हि यद्यत्र
घट: स्यात्तह्युपलभ्येत इति तर्कितया घटसत्त्वस्य प्रसत्त्या आपादिताया
घटविषयकोपलब्धेरभावो घटाभावप्रत्यक्ष इन्द्रियस्य सहकारीति ।
: अनुपलब्धिरूपप्रमाणगम्य इत्याहुः । चतुर्थः - एकप्रतियोगिकयोर-
भट्टास्तु अभावो नेन्द्रियग्राह्यः कृप्तसंनिकर्षाणामभावात् । किं तु
प्यत्यन्ताभावान्योन्याभावयोः प्रतियोगितावच्छेदकधर्मप्रतियोगितावच्छेद-
कसंसर्गमेदाद्वद्धुत्वम् । तत्र प्रतियोगितावच्छेदक धर्मसंसर्ग मेदादत्यन्ताभा-
बबहुत्वम् प्रतियोगितावच्छेदकधर्ममेदाद' योन्याभावबद्भुत्वम्
 
-
 
इति