2023-10-19 12:06:47 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
६५
 
67
 
क्रमः । तत्रावयवविपर्यासेन वचनमप्राप्तकालमसंबद्धार्थकालं निग्रहस्था-

नमिति ( वात्स्या० ५।२।११ ) । [ ख ] समयबन्धविषयीभूतकथा-

क्रमविपरीतक्रमेणाभिधानम् ( गौ· वृ० ५/२/११ ) ( दि० १ । २२)।

तत्रायं क्रमः - वादिना साधनमुक्वा सामान्यतो हेत्वाभासा उद्धरणीया

इत्येकः पादः । प्रतिवादिनश्च तत्रोपालम्भो द्वितीयः पादः । प्रतिवादिनः

स्वपक्षसाधनम् तत्र हेत्वाभासोद्धरणं चेति तृतीयः पादः । जयपराजय-

व्यवस्था चतुर्थः पादः । एवं प्रतिज्ञाहेत्वादीनां क्रमः । तत्र सभाक्षोभ-

व्यामोहादिना व्यत्यस्ताभिधानमप्राप्तकालमिति ( गौ० वृ० ५/२/११) ।

[ग] अवयवानां व्युत्क्रमेण कथनम् । यथा शब्दत्वाच्छन्दः अनित्य

इत्यादि ( नील० ४५)।
 
-
 

 
<
अप्राप्तिसमः>
(जातिः) [क] प्राप्य साध्यमप्राप्य वा हेतोः प्राप्त्या अवि-

शिष्टत्वादप्राप्त्या असाधकत्वाच्च प्रात्यप्राप्तिसमौ ( गौ० ५११।७ ) ।

हेतुः प्राप्य वा साध्यं साधयेदप्राप्य वा । अप्राप्य साधकं न भवति । ना-

प्राप्तः प्रदीपः प्रकाशयतीति । अप्राध्या प्रत्यवस्था नमप्राप्तिसमः (वात्स्या०

५/१/७) (नील० ४४ ) । [ ख ] अप्राध्या असाधकत्वादनिष्टाषा-

दनम् । यदि चाप्राप्तं लिङ्गं साध्यबुद्धिं जनयति साध्याभावबुद्धिमेव किं

तन्न जनयेत् । अप्राप्तत्वाविशेषात् इति । अयं चाप्राप्तिसमः प्रतिकूल-

तर्कदेशनाभास इति बोध्यम् (गौ० वृ० ५/१२/७) । यथा आत्मा सक्रियः

क्रियाहेतुगुणवत्त्वादित्यादौ क्रियाहेतुगुणवत्त्वेनैव किमिति क्रियावत्त्वं सा-

ध्यते किमिति क्रियावत्त्वेन तादृशगुणवत्त्वं न साध्यते । उभयोरविशेषात् ।

इति दोषादप्राप्तस्य हेतोः साध्यसाधकत्वं वाच्यम् । तथा चाप्राप्तत्वाविशे-

षात्सर्वः सर्वं साधयेदिति । अयमेव हेतुः साध्याभावं किमिति न साधयेत्

इत्यत्र विनिगमकाभावादिति ( नील० ४४ ) । [ग ] अप्राप्य साध-

येत्साध्यं हेतुः सर्वत्र साधयेत् । अप्राप्तेरविशिष्टत्वादित्यप्राप्तिसमे स्थितिः

( ता० २० परि० २ श्लो० ११२ ) ।
 

 
<
अफललम्>
मुख्यफलाजनकत्वम् ( मू० म० १ ) । यथा स्वर्गोदेशेन

कृतस्य चैत्यवन्दना देरफलत्वम् ।
 

९ न्या० को०