2023-10-19 12:05:23 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
तादृशक्षरणांशे विशेषणीभूतस्य ( परंपरया धात्वर्थतावच्छेदकस्य )

विभागस्याश्रय इति गोरप्रधानकर्मत्वं बोध्यम् ( ग० व्यु० २ ) ।

शब्दशक्तिप्रकाशकारास्तु मोचनानुकूलव्यापारो दुहेरर्थः । मोचनं च.

बहिः क्षरणानुकूला क्रिया । तादृशक्रियायाः साक्षाद्धात्वर्थतावच्छेदकी-

भूताया आश्रयो गौरिति गोः प्रधानकर्मत्वम् । पयसस्तु परंपरया धात्व-

र्थतावच्छेदकीभूतबहिःक्षरणात्मक फलाश्रयत्वेन गौणकर्मत्वमित्यङ्गीचक्रुः

( श० प्र० ९८ ) । अत एव पयःप्रभृतेर्गौणकर्मत्वसंपत्तये अकथितं

च (पा० १ । ४ । ५१ ) इति सूत्रान्तरम् ( श० प्र० ९६ ) ।

 
<
अप्रधानत्वम् - >
१ गौणत्ववदस्यार्थोनुसंधेयः । २ कर्मणः अप्रधानत्वं च

अप्रधानक्रियाफलाश्रयत्वम् । ३ प्राधान्यं हि विधेर्यत्र प्रतिषेधेप्रधा[^१]न-

तेति भाट्टाः ( वाच० ) ।
 
६४
 
·
 

 
[^१] अंप्रधानतेति पदच्छेदः ।
 
<
अप्रमा>
(बुद्धिः) [ क ] तच्छ्रन्ये तन्मतिः (भा०प० गु० श्लो० १२८ ) ।

इयं च दोषाज्जन्यते । दोषास्तु पित्तमण्डूकवसाञ्जनादयो नानाविधाः ।

तथा हि कचित्पित्तभ्रमे पित्तं दोषः । क्वचिच्चन्द्रादेः स्वल्पपरिमाणभ्रमे

दूरत्वं दोषः । क्वचिच्च वंशोरगभ्रमे मण्डूकवसाञ्जनम् । एवंरूपा दोषा अन-

नुगता एव भ्रान्तिजनका इति ( भा०प० श्लो० १३२ ) (मु० गु०

२११ ) । अधिकं तु भ्रमशब्दव्याख्यानावसरे संपादयिष्यते । [ ख ]

प्रमाणाभासजन्यः अयथार्थानुभव: ( त० कौ० ६ ) । [ ग ] यत्र

यन्नास्ति तत्र तस्य ज्ञानम् । [ घ ] तदभाववति तत्प्रकारकानुभवः

( चि० १।१० ) । यथा पुरोवर्तिन्येवारजते शुत्ताद इदं रजतम् इति

रजतारोपः ( त० भा० ४० ) । अप्रमा त्रिविधा । संशयः विपर्ययः

तर्कश्चेति ( त० सं० ) (त० भा० ४०) । प्रकारान्तरेणाप्रमा द्वेधा । ।

भ्रमः संशयश्च । तत्र भ्रमो विपर्ययतर्कावित्युच्यते (त० कौ० ६ )

( भा० प० श्लो० १२८ - १२९ ) ( मु० गु० २०९ ) ।

 
<
अप्राप्तकालम् - >
( निग्रहस्थानम् ) [ क ] अवयवविपर्यासवचनमप्राप्तका-

लम् ( गौ० ५/२/११) । प्रतिज्ञादीनामवयवानां यथालक्षणमर्थवशा-
१ अंप्रधानतेति पदच्छेदः ।