This page has not been fully proofread.

न्यायकोशः ।
 
तादृशक्षरणांशे विशेषणीभूतस्य ( परंपरया धात्वर्थतावच्छेदकस्य )
विभागस्याश्रय इति गोरप्रधानकर्मत्वं बोध्यम् ( ग० व्यु० २ ) ।
शब्दशक्तिप्रकाशकारास्तु मोचनानुकूलव्यापारो दुहेरर्थः । मोचनं च.
बहिः क्षरणानुकूला क्रिया । तादृशक्रियायाः साक्षाद्धात्वर्थतावच्छेदकी-
भूताया आश्रयो गौरिति गोः प्रधानकर्मत्वम् । पयसस्तु परंपरया धात्व-
र्थतावच्छेदकीभूतबहिःक्षरणात्मक फलाश्रयत्वेन गौणकर्मत्वमित्यङ्गीचक्रुः
( श० प्र० ९८ ) । अत एव पयःप्रभृतेर्गौणकर्मत्वसंपत्तये अकथितं
च (पा० १ । ४ । ५१ ) इति सूत्रान्तरम् ( श० प्र० ९६ ) ।
अप्रधानत्वम् - १ गौणत्ववदस्यार्थोनुसंधेयः । २ कर्मणः अप्रधानत्वं च
अप्रधानक्रियाफलाश्रयत्वम् । ३ प्राधान्यं हि विधेर्यत्र प्रतिषेधेप्रधान-
• तेति भाट्टाः ( वाच० ) ।
 
६४
 
·
 
अप्रमा—(बुद्धिः) [ क ] तच्छ्रन्ये तन्मतिः (भा०प० गु० श्लो० १२८ ) ।
इयं च दोषाज्जन्यते । दोषास्तु पित्तमण्डूकवसाञ्जनादयो नानाविधाः ।
तथा हि कचित्पित्तभ्रमे पित्तं दोषः । क्वचिच्चन्द्रादेः स्वल्पपरिमाणभ्रमे
दूरत्वं दोषः । क्वचिच्च वंशोरगभ्रमे मण्डूकवसाञ्जनम् । एवंरूपा दोषा अन-
नुगता एव भ्रान्तिजनका इति ( भा०प० श्लो० १३२ ) (मु० गु०
२११ ) । अधिकं तु भ्रमशब्दव्याख्यानावसरे संपादयिष्यते । [ ख ]
प्रमाणाभासजन्यः अयथार्थानुभव: ( त० कौ० ६ ) । [ ग ] यत्र
यन्नास्ति तत्र तस्य ज्ञानम् । [ घ ] तदभाववति तत्प्रकारकानुभवः
( चि० १।१० ) । यथा पुरोवर्तिन्येवारजते शुत्ताद इदं रजतम् इति
रजतारोपः ( त० भा० ४० ) । अप्रमा त्रिविधा । संशयः विपर्ययः
तर्कश्चेति ( त० सं० ) (त० भा० ४०) । प्रकारान्तरेणाप्रमा द्वेधा । ।
भ्रमः संशयश्च । तत्र भ्रमो विपर्ययतर्कावित्युच्यते (त० कौ० ६ )
( भा० प० श्लो० १२८ - १२९ ) ( मु० गु० २०९ ) ।
अप्राप्तकालम् - ( निग्रहस्थानम् ) [ क ] अवयवविपर्यासवचनमप्राप्तका-
लम् ( गौ० ५/२/११) । प्रतिज्ञादीनामवयवानां यथालक्षणमर्थवशा-
१ अंप्रधानतेति पदच्छेदः ।