न्यायकोशः /117
This page has been fully proofread once and needs a second look.
६३
-
wwwwws
१ अतद्वयावृत्तिः । यथा विज्ञानवादिबौद्धमते नीलत्वा दिर्धर्मः अनी-
लव्यावृत्तिरूपः ( दि० १) । तन्मतेयं धर्मोपारमार्थिक एवेति सर्वस्यापि
विज्ञानरूपत्वं क्षणिकत्वं चेति च ज्ञेयम् । २ अपरतर्कनिरासाय कृतो
विपरीततर्कः । यथा शुश्रूषा श्रवणं चैव ग्रहणं धारणा तथा । ऊहोपो-
होर्थविज्ञानं तत्त्वज्ञानं च धीगुणाः ॥ इति हेमचन्द्रोक्तो बुद्धिगुणभेदः । यथा
वा स्वयमूहापोहसमर्थ इत्यादौ । ३ व्याग इति काव्यज्ञा वदन्ति
( वाच० ) ।
—
<अवम्
( जाति: ) सरित्सागरसमवेतत्वे सति ज्वलनासमवेतं सामान्यम्
( सर्वद० सं० पृ० २१८ औलु० ) ।
<अप्रतिपत्तिः
[ क ] आरम्भविषये अनारम्भः । परेण स्थापितं वान
प्रतिषेधति । प्रतिषेधं वा नोद्धरति ( वात्स्या०
११२/
16
चाननुभाषणाज्ञानादिनिग्रहस्थानप्रयोज्या ( वात्स्या० १/२/६१ ) ।
[ ख ] प्रकृताज्ञानम् ( गौ० वृ० ११२/६० ) ।
<अप्रतिभा
( निग्रहस्थानम् ) [ क ] उत्तरस्याप्रतिपत्तिरप्रतिभा (गौ०
५/२/१९ ) । परपक्षप्रतिषेध उत्तरम् । तद्यदा न प्रतिपद्यते तदा निगृ-
हीतो भवति ( वात्स्या० ५/२/१९ ) । [ख ] उत्तराईं परोक्तं
बुध्वापि यत्रोत्तरसमय उत्तरं न प्रतिपद्यते तत्राप्रतिभा ( गौ० वृ०
५/२/१९) ( दि० १) । [ग] उत्तरापरिस्फूर्तिः (त० भा० ५१ ) ।
[घ ] उत्तराईं परोक्तं बुध्वाप्युत्तरस्यास्फूर्तिवशात्तूष्णींभावः ( नील०
४५-४६ ) ।
<अप्रतिष्ठितः
१ निर्धनः ( मिताक्षरा० अ० २ श्लो० ११७ ) । २
अनपत्यः ( मिताक्षरा० अ० २ श्लो० १४५ ) ।
<अप्रधानकर्मत्वम्
त्वम् (ग० व्यु० २ ) ( श०
गवादेर प्रधानकर्मत्वम् (ग०
–
(कर्मत्वम् ) परंपरया धात्वर्थतावच्छेदकफलशालि
त्वम् (ग० व्यु० २ ) ( श० प्र० ९६ ) । यथा गां दोग्धि पय इत्यादौ
गवादेर प्रधानकर्मत्वम् (ग० व्यु० २) । अत्र विभागावच्छिन्नक्षरणा-
व्यु० २) ।
नुकूलो व्यापारो दुइधात्वर्थः । तथा च धात्वर्थव्यापारांशे साक्षाद्विशेष-
णस्य ( साक्षाद्धात्वर्थतावच्छेदकस्य ) क्षरणस्याश्रयः पय एव । गौस्तु
-