This page has not been fully proofread.

न्यायकोशः ।
 
६९
 
अपूर्वविधिः–( विधिः ) [ क ] अप्राप्तप्रापको विधिः । स च यागा-
दीना मिष्टसाधनत्वस्य कृतिसाध्यत्वस्य वा बोधको लिङादिशब्दः । यथा
स्वर्गकामो यजेतेत्यादौ ( सि० च० ३३ ) ( वाच० ) । अप्राप्तप्राप-
कत्वं च प्राथमिकप्रवृत्तिजनकप्रतीतिजनकत्वम् प्रमाणान्तरजन्यप्रतीत्य-
विषयविषयक प्रतीतिजनकत्वं वा । इदं यजनं तु केनापि प्रमाणान्तरेण
न बोधितम् ( सि० च० ३३ ) । अत्रेदं बोध्यम्-लिङा यागादाविष्ट-
साधनत्वं बोध्यत इति नैयायिकाः । कार्यत्वेनापूर्वी बोध्यत इति प्राभाकरा
मन्यन्ते ( वाच० ) । [ ख ] प्रमाणान्तरेणाप्राप्तप्रापको लिङादिपदवे-
दनीयः शब्द विशेषः । यथा स्वर्गकामो यजेतेति लिङादियुक्तं वाक्यम् ।
अपूर्वविधिश्चतुर्विधः । कर्मविधिः गुणविधिः विनियोगविधिः प्रयोगविधि-
श्चेति । तत्राग्निहोत्रं जुहोतीत्यादौ यागरूपे कर्मणि इष्टसाधनतायाः कृतिसा•
ध्यतायाः भावनाया वा मतभेदेन बोधनात् कर्मविधित्वम् । द्रव्यदेवतादि-
विधायकविधिर्गुणविधिः । यथा दना जुहोतीत्या दिवाक्यम् । प्राप्तस्याग्नि-
विनियोज-
होत्रस्यानुवादेनाप्राप्तगुणरूपद्रव्यादेः ( दध्यादेः ) विधानात् ।
नाद्विनियोगविधिः । यथा ऐन्द्या गार्हपत्यमुपतिष्ठते इत्यादि । अत्र ऐन्द्या
ऋचः गार्हपत्योपस्थाने विनियोजनात् विनियोगविधिः । एवं कृत्वा एवं
कुर्यात् इत्यादिप्रयोगज्ञापको विधिः प्रयोगविधिः । यथा अधीय
स्नायादित्यादि उपसद्भिश्चरित्वा मासमेकमग्निहोत्रं जुहोतीत्यादि च । अयं
च विशिष्टविधिरिति भेदः ( वाच० ) । [ग यस्य यदर्थत्वं प्रमाणा-
न्तरेणाप्राप्तं तस्य तदर्थत्वेन यो विधिः सोपूर्वविधिः । यदाहुः - विधिर-
www.j
• त्यन्तमप्राप्ते नियमः पाक्षिके सति । तत्र चान्यत्र च प्राप्तौ परिसंख्येति
गीयते ॥ ( मी० न्या० पृ० ४६ ) । विस्तरस्तु विधिशब्दे दृश्यः ।
अपेक्षा – १ आकाङ्क्षा । सा च शाब्दबोधप्रयोजनिका । २ असामर्थ्यम् ।
अस्यामपेक्षायां च प्रायशो वृत्तिर्नेष्यते । यथा प्रवीरं पुत्रकाम्पति
ऋद्धस्य राजमातङ्ग इत्यादौ प्रत्ययसमासौ न स्तः । तत्रोक्तम् - सापेक्षे
• प्रत्ययो न स्यात्समासो वा कथंचन । सापेक्षं तद्विजानीयादसमस्त विशेष-
णम् ॥ इति । ३ प्रयोजकत्वम् । तच्च ज्ञाने स्थितौ उत्पत्तौ वा इतरस्यानु-

 
-
 
·