2023-12-26 08:21:27 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

१०८३
 
सोन्यतरासिद्धोनध्यवसायहेतुत्वादनध्यवसितः । यथा सत् कार्यमुत्पत्तेः

इति । अयमप्रसिद्धोनपदेशः (वै० ३ । १ । १५ ) इति वचनादविरुद्धः

( प्रशस्त ० २ पृ० ४७ ) इति । सोपि कणादमते संदिग्धादावन्तर्भवति

इति न त्रैविध्यविभागविरोध: ( त० व० ३ । २ श्लो० ५६ पृ० ८४ ) ।

अत्र भाष्यम् एतेन अप्रसिद्धविरुद्धसंदिग्धानध्यवसितवचनानामनपदेशत्व-

मुक्तं भवति ( प्रशस्त ० २ पृ० ४६ ) इति । लीलावतीकारा अप्याहुः

हेत्वाभासाश्चत्वारः विरुद्धासिद्धसव्यभिचारानध्यवसिताः । बाधप्रतिरोधा-

वपि स्तः इति चेन्न । तयोः व्याप्तिपक्षधर्मतापहारेणैवानुमानदूषकत्वात्
 
न्यायकोशः ।
 

सिद्धसाधनवत् ( न्या० ली० पृ० ४३ ) इति । अत्रेदं चिन्त्यम् ।

उत्पत्तिकालीनो घटो गन्धवान्पृथिवीत्वात् इत्यादौ मूलावच्छिन्नो वृक्षः

कपिसंयोगी इत्यादौ चासंकीर्णदोषस्थले बाधस्यैवातिरिक्त दोषत्वमवश्य-

मङ्गीकर्तव्यम् ( भा० प० श्लो० ७९) (चि० २ ) इति । मञ्जरी-

प्रकाशकारस्तु आद्यक्षणावच्छिन्नो घटो गन्धवान् स्नेहात् इत्यादौ

व्यभिचारादिदोषपञ्चकमपि संभवति इत्याह ( म० प्र० २ पृ० २५ )।

 
<
होत्रकः>
मैत्रावरुणब्राह्मणाच्छंसिपोत्रादय ऋत्विजो होत्रका: ( जै० न्या०

अ० ३ पा० २ अधि० १२ ) ।
 
-
 

 
<
होम: - >
[क ] याग एव विशिष्टदेशप्रक्षेपोपहितो होम इत्युच्यते ( का०

व्या० कार० ४ पृ० ५) । यथा नित्यं गृहस्थकर्तव्येषु पञ्चसु यज्ञेषु

मध्ये देवयज्ञः । यथा वा आपस्तम्बीयैः क्रियमाणं श्राद्धीयविप्रपाणौ

श्राद्धीयान्नभागस्य मन्त्रेण दानम् ( पाणिहोमः ) ( श्रा० त० ) ।

[ ख ] व्यक्तस्य वह्नौ प्रक्षेपः होमः ( जै० न्या० अ० ४ पा० २
 

आ. (३) । अत्र होमत्वं च मानसप्रत्यक्षगम्यो जातिविशेषः इत्यन्ये
 

आहुः ( दि० गु० धर्मनि० पृ० २३४ ) ।
 

 
<
होलाका>
वसन्तोत्सवः ( जै० न्या० अ० १ पा० ३ अधि० ८)।

 
<
होलिका>
सर्वदुष्टापहो होमः सर्वरोगोपशान्तिदः । क्रियतेस्यां द्विजैः

पार्थ तेन सा होलिका स्मृता ॥ (पु० चि० पृ० ३०९ ) । अत्र विशेषः

सार्धयामत्रयं वा स्याद्वितीये दिवसे यदा । प्रतिपद्वर्धमांना तु तदा सा

होलिका स्मृता ॥ (पु० चि० पृ० ३१२) इति ।
 
-