2023-12-26 08:20:42 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

१०८२
 
न्यायकोशः ।
 
स्नेहस्य अनैकान्तिकः विरुद्धः इत्यादिपञ्चस्वव्यवहारः कथम् इत्याशङ्काया-

मुत्तरम् । उपधेयसंकरेप्युपाव्यसंकरः इति न्यायाद्दोषगतसंख्यामादाय

दुष्टहेतौ पञ्चत्वादिसंख्याव्यवहारः (दीधि ० २ हेत्वा० पृ० १७८) इति ।

तेन यत्र क्वचिद्धेतावेकविध एव दोषः क्वचिद्वौ कचित्तु त्रयः पञ्चविधा

वा संभवेयुः तत्रापि तत्तद्व्यवहारः संगमनीयः इति । गौतमे मते हेवा-

भासः पञ्चधा सव्यभिचारः विरुद्धः प्रकरणसम: साव्यसमः कालातीत-

श्चेति (गौ० ११२।४ ) । वृत्तिकारोपि अप्रसिद्धोनपदेशोसन् संदिग्ध-

चानपदेशः (बै० ३।१२।१५) इति सूत्रस्थचकारस्य बाधस प्रतिपक्ष

समुच्चयार्थकतामुक्त्वा गौतमीयमेव मतमनुधावति (वै० उ० ३ । १ । १७

पृ० १६१) । पर्यायान्तरेण हेत्वाभासः पञ्चधा असिद्धः विरुद्धः

अनैकान्तिकः प्रकरणसमः कालात्ययापदिष्टश्चेति ( त० भा० ) ।

पर्यायान्तरेणापि हेत्वाभासः पञ्चधा सव्यभिचारः विरुद्धः असिद्धः

सत्प्रतिपक्षितः बाधितश्चेति ( न्या० म० २ पृ० २० ) ( त० सं० ) ।

एवं च अनुकूलतर्काभावादयः असिद्धभेदा एव । विशेषणासिद्ध विशेष्या-

सिद्ध असमर्थविशेषण असमर्थविशेष्य असमर्थोभय संदिग्धासमर्थविशेषण

संदिग्धासमर्थविशेष्य संदिग्धासमर्थोभय इत्यादयः सहस्रधाभेदभिन्नासिद्ध-

प्रभेदाः स्वरूपासिद्धे अन्तर्भवन्ति (वै० उ० ३ । १ । १७५० १५८-१५९)

( त० मा० हेत्वा० पृ० ४५ ) । व्यर्थविशेषणस्तु व्याप्यत्वासिद्धे

अन्तर्भवति इति न हेत्वाभासाधिक्यम् इति विज्ञेयम् । काश्यपमते

( कणादमते) तु हेत्वाभासस्त्रिधा असिद्धः विरुद्धः संदिग्धश्चेति । अत्र

भाष्यम् अनुमेयेन संबद्धं प्रसिद्धं च तदन्विते । तदभावे च नास्त्येव

तल्लिङ्गमनुमापकम् ॥ विपरीतमतो यत्स्यादेकेन द्वितयेन वा । विरुद्धा-

सिद्धसंदिग्धमलिङ्गं काश्यपोब्रवीत् ॥ ( प्रशस्त ० २ पृ० ४४ ) इति ।

तथा हि काश्यपसूत्रम् अप्रसिद्धोनपदेशोसन् संदिग्धश्चानपदेश: (वै०

३।१।१५) इति । अनव्यवसितो नामातिरिक्तश्चतुर्थो हेत्वाभासः इति

केचिदाहु: ( प्रशस्त ० ) ( त० व० ३ । २ श्लो० ५६ पृ० ८४ ) ।

साध्यासाधकः पक्ष एव वर्तमानो हेतुः अनध्यवसितः इत्युच्यते । तथा

च भाष्यम् यश्चानुमेये विद्यमानः तत्समानासमानजातीययोरसन्नेव
 

 
-