न्यायकोशः /1135
This page has not been fully proofread.
न्यायकोशः ।
१०८१
न च केवलान्वयिकेवलव्यतिरेकिणोर्हेत्वोरन्यतररूपशून्यतया हेत्वाभासत्वा-
पत्तिः । केवलान्वयिनि विपक्षासत्त्वस्य केवलव्यतिरेकिणि सपक्षसत्त्वस्य
गमकत्वौपयिकत्वाभावात् । एवं च आश्रयासिद्धस्वरूपासिद्धभागासिद्धानां
पक्षसत्त्वरूपविरहादाभासत्वम्। व्याप्यत्वासिद्धविरुद्धसाधारणा नैकान्तिकानां
विपक्षासत्त्वरूपवैकल्यात् । असाधारणानैकान्तिकानुपसंहारिणोः सपक्ष-
सत्त्ववैकल्यात् । बाधित सत्प्रतिपक्षितयोरबाधितत्वासत्प्रतिपक्षितत्वविरहात्।
एवम् सोपाधिकाप्रयोजकयोरपि विपक्षासत्त्वनिश्चयाभावादगमकत्वम् ।
अनुकूलतर्काभावप्रतिकूलतर्कयोरपि विपक्षासत्त्वनिश्चय विरहात् । एवम्
साध्यविकलसाधन विकलोभयविकलदृष्टान्ताभासानां यदि हेत्वाभासविधया
दोषत्वम् तदा सपक्षसत्त्वानिश्चयात् । यदि स्वातन्र्येण दृष्टान्ताभासतया
तथापि द्वारं हेतोः सपक्षसत्त्वानिश्चय एव । अनुपदर्शितान्वयानुपदर्शित-
व्यतिरेकास्तु न्यूनाप्राप्तकालनिग्रहस्थान पर्यवसन्ना एव । आत्माश्रया-
न्योन्याश्रयचक्रकानवस्थास्तु व्याप्तिनिश्चयं विघटयन्तः सपक्षसत्त्वविपक्षा-
सत्त्वान्यतररूपविकला एव हेत्वाभासतामापादयन्ति (वै० उ० ३।१।
१७ पृ० १५९ - १६० ) इति । [ङ ] असाधको हेतुत्वेनाभिमतः
( सर्व० पृ० २३९ अक्ष० ) । यथा हदो वहिमान् धूमात् इत्यादौ
धूमो. हेत्वाभासः । अत्र वयभाववद्धदो बाधः वयभावव्याप्यवद्भदः
सत्प्रतिपक्षः घूमाभाववज्रदः स्वरूपासिद्धिश्च एतद्दोषत्रयवान् धूमो भवति
इति धूमो हेत्वाभासः । यथा वा वायुर्गन्धवान्स्नेहात् इत्यादौ स्नेहः
( दि० २ ) । यथा वा घटः पटोस्ति कुड्यत्वात् इत्यादौ कुड्यत्वं
हेत्वाभासः । हेत्वाभासस्य पञ्चविधत्वकथनमप्येतादृश स्थलाभिप्रायेणैव ।
तथा चात्र पञ्चानामपि दोषाणां संभवः । तथा हि गन्धाभाववद्वृत्तिः
स्नेहः साधारणानैकान्तिकः । गन्धव्यापकीभूताभावप्रतियोगी स्नेहो-
साधारणानैकान्तिकः । गन्धवदवृत्तिः स्नेहो विरुद्धः । स्नेहाभाववान्वा-
युरसिद्धिः तद्वान्स्नेहः असिद्धः स्वरूपासिद्धः । गन्धाभावव्याप्यवायुत्व-
वान् वायुः सत्प्रतिपक्षः तान्नेहः सम्प्रतिपक्षितः । गन्धाभाववान्वायु-
बधः तद्वान्स्लेहो बाधितश्च इति । एवम् घटः पटोस्ति कुड्यत्वात्
इत्यादावपि हेतौ पञ्चदोषवस्वमुन्नेयम् । अत्रेदं बोध्यम् । एकस्यैव
१३६ न्या० को०