2023-12-26 08:20:11 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 

 
दृष्टान्तदोषम् अनुपदर्शितान्वयत्वादियुक्तिदोषम् आत्माश्रयत्वादिव्याघा-

तम् अनुक्तं त्रयमपि समुच्चिनोति ( सा० सं० पृ० १२० ) । अत्र

चकारस्य दृष्टान्ते साधनवैकल्यादिसमुच्चायकत्वम् इति केचिदाहुः ।

तन्न । यथोक्ताः इत्यस्यानन्वयापत्तेः ( गौ० वृ० ५/२/२४ ) इति ।

अत्र भाष्यम् हेत्वाभासाश्च निग्रहस्थानानि हेत्वाभासलक्षणेनैव निग्रह-

स्थानभावः (वात्स्या० ५।२।२४ ) इति । हेत्वाभासा: पुनर्यथा येन

रूपेण पूर्वम् (गौ० सूत्रे १ । २।७४ - ९ ) उक्ताः तेनैव रूपेण तेषां

निग्रहस्थानत्वम् इति न लक्षणान्तरमपेक्षितम् ( गौ० वृ० ५/२/२४ )

( ता० २० परि० ३ श्लो० १५४ ) । ते च हेत्वाभासा:

निग्रहस्थानम् । निग्रहस्थानत्वं प्राप्तानां पुनरेषां पृथगुपदेशो वादे

देशनीयत्वात् । तथा च भाष्यम् निग्रहस्थानेभ्यः पृथगुपदिष्टाः हेत्वाभासा

वादे चोदनीया भविष्यन्तीति (वात्स्या० १२।१९।१ पृ० ६ ) । वार्तिक-

कारैरप्युक्तम् यस्मात्किलेते वादे देश्यन्ते अतः पृथगुपदिश्यन्ते न्याय-

सूत्रेण (१।१।१९ ) (न्या० वा० १ पृ० २० ) इति । [ ख ]

पञ्चरूपोपपन्नत्वाभावे सति तद्रूपेण भासमान : ( गौ० वृ० १ १ २ ४ ) ।

पञ्च रूपाणि तु पक्षसत्त्वम् सपक्षसत्त्वम् विपक्षासत्त्वम् अबाधितत्वम्

असत्प्रतिपक्षितत्वं चेति ( गौ० वृ० ११२।४ ) (बै० उ० ३।१।१७) ।

[ग] पक्षधर्मत्वादीनां पञ्चानां रूपाणां मध्य एकेनापि रूपेण हीनो यो

हेतुः सोपि कतिपयहेतुरूपयोगाद्धेतुवदवभासमानः (त० भा० पू० ४४ )

(वै० उ० ३११ । १७ ) (त० व० ) । तथा चोक्तं तार्किकरक्षायाम्

हेतोः केनापि रूपेण रहिताः कैश्चिदन्विताः । हेत्वाभासा: पञ्चधा ते

गौतमेन प्रपञ्चिताः ॥ (ता० २० श्लो० ८०) (वै० उ० ३।१।१७) ।

अत्र न्यायवार्तिकमपि अन्यतमलिङ्गधर्मानुविधानेन प्रवर्तमाना अहेतवः

सन्तो हेतुवदवभासन्त इति हेत्वाभासा : ( न्या० वा० १५० २० )

इति । [घ ] यस्य हेतोर्यावन्ति रूपाणि गमकतौपयिकानि तदन्यतर-

रूपहीनः स हेतुराभासः (वै० उ० ३ । १ । १७ १० १५९ ) । एवं च

गमकतौ पयिकान्यतररूपशून्यत्वं हेत्वाभासत्वम् । तेन अन्यतररूपशून्य-

त्वस्य निश्चयवत् संदेहोप्यनुमितिप्रतिबन्धकः वादिहेतोरसाधकतासाधकः ।
 
१०८०