2023-12-26 08:19:57 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोश: ।
 
१०७९
 
वैकल्यं यथा मनः अनित्यं मूर्तत्वात् इत्यत्र यदनित्यं न भवति तन्मूर्ते

न भवति यथा परमाणुः इति । उभयाभाववैकल्यं यथा मनः अनित्यं

मूर्तत्वात् इत्यत्र यदनित्यं न भवति तन्मूर्त न भवति यथा घटः ( प्र०

च० पृ० २८-३५ ) इत्यलं विस्तरेण । २ दुष्टो हेतु: [ क ] हेतु-

लक्षणाभावादहेतुर्हेतुसामान्याद्धेतुवदाभासमानः ( वात्स्या० १ । २ । ४ ) ।

अत्र हेतुवदाभासते इति व्युत्पत्त्या हेत्वाभासपदस्य दुष्टहेतुः इत्यर्थः

( ग० २ हेत्वा० सामा० प्रस्ताव० पृ० २) । यद्वा हेतोराभासः

सदृश: ( न्या० बिन्दु० टी० परि० ३ पृ० ६६ ) । अत्र श्रुतमस्म-

गुरुमुखात् । अत्र सादृश्यं च पञ्चम्यन्तपदप्रतिपाद्यत्वेन इति सातारा-

ग्रामस्थास्त्रिपथगाकर्तारो गजेन्द्रगडकर इत्युपाहा राघवेन्द्राचार्याः प्राहुः

इति । दुष्टहेतोर्लक्षणं च सव्यभिचाराद्यन्यतमत्वम् ( न्या० म० ) ।
(

निरुक्तदोषवत्वं वा ( नील० २ हेत्वा० पृ० २४ ) । अत्र निरुक्त-

दोषस्तु हेत्वाभासशब्दस्य प्रदर्शिते प्रथमेर्थे दृश्यः । अत्रेदं विज्ञेयम् ।

हेतौ तादृशदोषविशिष्टत्वं च स्वविषयकज्ञान विषयत्व विशिष्ट प्रकृतहेतु-

तावच्छेदकवत्त्वसंबन्धेन बोध्यम् । तेन हेतुषु दोषसंबन्धः ( दोषाणां

हेतुनिष्ठत्वम् ) संगच्छते ( दी६ि० २ हेत्वा० पृ० १७९) ( ग०

हे० सामा० ) इति । हेत्वाभासप्रयोजनं तु इत्थम् । द्वयं छुद्देश्यम्

परानुमितिप्रतिबन्धः स्थापनाया असाधकतासाधकत्वं च । अत्रासाधकत्वं

च स्वज्ञानदशायां पक्षे साध्यप्रत्ययाजनकत्वम् । तत्राद्यं दूषणमात्रज्ञानादेव ।

द्वितीयं तु अलिङ्गत्वज्ञापनात् प्रतिबन्धकत्ववदनेनापि रूपेण दूषकत्व-

संभवः इत्यभिप्रायेण वा असाधकतासाधनत्वम् ( चि० २ हेत्वा ०

पृ० १११ ) इति । किंच विपरीतकोटिसाधकस्य हेतोः हेत्वाभासत्व-

ज्ञानेन स्वस्य तत्त्वनिर्णयः (प्रमितकोटिनिश्चयः साध्यवत्ताज्ञाने प्रमात्व-

निश्चयो वा ) भवति । स्वस्य परोक्तहेतौ हेत्वाभासत्वज्ञाने सति तत्र

दोषोद्भावनेन व्याप्त्यादिविशिष्टहेतोः संन्यायप्रयोगकरणेन च विजयोपि

भवति (ग० २ हेत्वा - सामा प्रस्ताव० पृ० १ - २) इति । अत्रेदं

बोध्यम् । हेत्वाभासो निग्रहस्थानमेव । तथा च सूत्रम् हेत्वाभासाश्व
 
-
 
*

यथोक्ताः ( गौ० ५ /२ । २४ ) इति । अत्र चकारः साध्यविकलत्वादि-
-