2023-12-26 08:19:39 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

१०७८
 
न्यायकोशः ।
 
जतिः । यथा मे माता वन्ध्या इत्यादि । हेतुविरोधोपि द्विविध स्वरूपा-

सिद्धिः अव्याप्तिश्चेति । तत्र स्वरूपासिद्धेरुदाहरणं शब्दो नित्यश्चाक्षुष-

त्वात् इति । अत्र चाक्षुपत्वं शब्दे नास्ति । तस्य श्रावणत्वात् इति ज्ञेयम्

( प्र० च० पृ० २९ ) । अव्याप्तिस्त्रिविधः लिङ्गस्य साध्येन तदभावेन

च संबन्धः साव्यसंबन्धाभावे सति तदभावेनैव संबन्धः उभयसंबन्धा-

भावश्चेति । तत्र आद्या यथा शब्दो नित्यः प्रमेयत्वात् इति । अयं हेतुः

साधारणानैकान्तिकः इत्युच्यते नैयायिकैः इति ज्ञेयम् । द्वितीया यथा

शब्दो नित्यः कृतकत्वात् इति । अयं हेतुः विरुद्धः इत्युच्यते नैयायिकैः

इति विज्ञेयम् । तृतीया यथा सर्वमनित्यं सत्त्वात् इति । अत्र सर्वस्यापि

पक्षत्वेनोभयसंबन्धो नास्ति ( प्र० च० पृ० ३० ) इति । अयं हेतुः

अनुपसंहारी इति नैयायिकैरुच्यते इति विज्ञेयम् । दृष्टान्तविरोधोपि

द्विविधः साध्यवैकल्यम् साधनवैकल्यं चेति । तत्राद्यो यथा मनः
:

अनित्यम् मूर्तत्वात् परमाणुवत् इति । द्वितीयो यथा मनः अनित्यम्
 

मूर्तस्वात् कर्मवत् इति । अत्रेदं विज्ञेयम् । दृष्टान्ते साध्यवैकल्यसाधन-
-

वैकल्यादयः उदाहरणाभासाद्याश्च यथायथं निग्रहस्थानादावन्तर्भवन्ति

इति न हेत्वाभासाधिक्यम् इति नैयायिकानां सिद्धान्तः (दि० १) इति ।

आकाङ्क्षाविरहः असंगतिः । असंगतेरुदाहरणं तु ईश्वरवादिनं प्रति

क्षित्यादिकं सकर्तृकम् कार्यत्वात् घटवत् इति । अत्र अनाकाङ्क्षित-

साधनप्रयुक्तत्वादसंगतिर्भवति इति विज्ञेयम् ( प्र० च० पृ० ३० ) ।

एवम् उदाहरणाभासा अपि दोषाः उदाहरणलक्षणरहिता उदाहरण-

वदवभासमानाः । ते चानेकप्रकाराः । तत्र साधर्म्यादाहरणे तावत्

साध्यवैकल्यम् यथा मनः अनित्यम् मूर्तत्वात् इति । साधनवैकल्यं

:. यथा मनः अनित्यम् मूर्तत्वात् कर्मवत् इति । अत्राद्ये यन्मूर्ते तदनित्यम्

यथा परमाणुः इति साध्यवैकल्यम् । द्वितीये कर्मणः अनित्यत्वेपि

मूर्तत्वाभावात् साधनवैकल्यम् इति विज्ञेयम् ( प्र० च० पृ० ३४ ) ।

उभयवैकल्यं यथा मनः अनित्यम् मूर्तत्वात् आकाशवत् इति । वैधय-

दाहरणे साध्याभाववैकल्यम् । यथा मनः अनित्यम् मूर्तत्वात् इत्यत्र

यदनित्यं न भवति तन्मूर्त न भुवति यथा कर्म इति । साधनाभाव-
-
 
C