2023-12-26 08:19:19 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
१०७७
 
संशयमापादयन्ननै कान्तिकादावेव पर्यवस्यति (वै० उ० ३ । १ । १७

पृ० १६०-१६१ ) इति । अत्रायमाशयः । यत्र वायुर्न प्रत्यक्षः नीरूप-

बहिर्द्रव्यत्वाद्गगनवत् इति साधिते वायुः प्रत्यक्षः प्रत्यक्षस्पर्शाश्रयत्वात्

घटवत् इति प्रत्यवतिष्ठते । तत्र हि सत्प्रतिपक्ष इत्युच्यते नैयायिकैः ।

न चात्र द्वयोर्यथार्थत्वं संभवति । न ह्येकमेव वस्तु प्रत्यक्षमप्रत्यक्षं च

भवितुमर्हति इति सुतरामेवान्यतरस्य भ्रान्तत्वमुपेयम् । तथा च अस्यापि

व्याप्यादिसंशयाधायकतयानैकान्तिकादावेवान्तर्भावः ( त० व० पृ०

८५ ) इति । केषांचिन्मते अनध्यवसितत्वनामा चतुर्थोपि हेत्वाभासः

( प्रशस्त ० ) ( वै० उ० ) ( मु० ) इति । [ग] वेदान्तिनस्त्वाहुः ।

हेत्वाभासः ( हेतुदोषः ) उपपत्तिदोषः इत्युच्यते । उपपत्तिदोषो द्विविधः

(१) विरोध: (२) असंगतिश्चेति । तत्र आद्यः जातिनिग्रहस्थान-

हेत्वाभासेभ्यः संगृहीतः ( प्र० च० ) । स च विरोधस्त्रिविधः प्रतिज्ञा-

विरोधः हेतुविरोधः दृष्टान्त विरोधश्च । तत्र प्रतिज्ञाविरोधो द्विविधः

प्रमाणविरोधः स्ववचनविरोधश्च । तत्र प्रमाणविरोधोपि द्विविधः प्रबल-

प्रमाणविरोधः समबलप्रमाणविरोधश्च । तत्र प्रबलप्रमाण विरोधस्योदाहरणं

प्रपञ्चो मिथ्या दृश्यत्वात् यद्दृश्यं तन्मिथ्या यथा शुक्तिरजतम् इति ।

अत्र सन् घटः इत्यादिप्रत्यक्षेण विमतं सत्यम् अर्थक्रियाकारित्वात्

संप्रतिपन्नवत् इत्याद्यनुमानेन विश्वं सत्यम् इत्यागमेन च जगतः सत्यत्वा-

वधारणात् प्रबलप्रमाणविरोधो द्रष्टव्यः ( प्र० च० पृ० २९) । अयं

हेतुर्नैयायिकैः बाधितः इत्युच्यते । समबलप्रमाणविरोधस्योदाहरणं तु

विमतं मिथ्या दृश्यत्वात् शुक्तिरजतवत् विमतं सत्यम् प्रामाणिकत्वात्

आत्मवत् इति । अत्रानुमानद्वये व्याप्तिपक्षधर्मतयोः साम्यात् समबल-

प्रमाणविरोधो ज्ञातव्यः ( प्र० च० पृ० २९ ) । अयं च हेतुर्नैयायिकैः

सत्प्रतिपक्षितः इत्युच्यते । स्ववचनविरोधोपि द्विविधः अपसिद्धान्तः

जातिश्चेति । तत्र पूर्वाचार्यैर्यत् प्रामाणिकतयाभ्युपगतं तद्विरुद्वाङ्गीकारो-

पसिद्धान्तः । यथा निरीश्वरसांख्यमत ईश्वराङ्गीकारः । अयं भावः

पूर्वाचार्यवचनस्यापि स्वयमङ्गीकृतत्वेन स्ववचनत्वादपसिद्धान्तः स्ववचन-

विरोधो भवति ( प्र० च० पृ० २९) इति । स्ववचन एव स्वव्याहति-
-