न्यायकोशः /1130
This page has not been fully proofread.
१०७६
न्यायकोशः ।
ल० १ पृ० ३ ) । तत्र गौतमवृत्तिकारादीनां नैयायिकानां नये स हेत्वा-
भासः पञ्चविधः व्यभिचारः विरोधः सम्प्रतिपक्षः असिद्धिः बाधश्चेति ।
अत्र नैयायिक सिद्धान्तस्तु बावसत्प्रतिपक्षभिन्ना ये हेत्वाभासास्तव्याप्या
अपि तत्रैवान्तर्भवन्ति । बाधव्याप्यस्यापि तु सत्प्रतिपक्षस्य स्वतन्त्रेच्छेन
मुनिना गौतमेन पृथगुपदेशात्र बाधेन्तर्भाव: । सम्प्रतिपक्षव्याप्यस्तु
नानुमितिप्रतिबन्धकः । तद्वत्ताज्ञाने तदभावव्याप्यवत्ताज्ञानस्य प्रतिबन्धक-
स्वेपि तदभावव्याप्यव्याप्यवत्ताज्ञानस्य प्रतिबन्धकत्वे मानाभावान्न हेत्वा -
भासलक्षणाक्रान्तत्वं तस्येति पञ्चैव हेत्वाभासा: ( म०प्र० २ पृ० २८)
इति । अत्रायं भावः । सव्यभिचारत्वादयो ये दोषाः तयाण्या अपि
त एव भवन्ति । तथा च सव्यभिचारत्वव्याप्यं सव्यभिचारत्वमेव
विरुद्धत्वव्याप्यं विरुद्धत्वमेव इत्यांद्यूयम् । परं तु बाधव्याप्यो भिन्न एव ।
स च सत्प्रतिपक्षो भवति । सत्प्रतिपक्षव्याप्यस्तु न सत्प्रतिपक्षः । तस्यानु -
मितिविरोधित्वाभावेन हेत्वाभाससामान्यलक्षणानाक्रान्तत्वात् इति । अन्यत्र
चैवमुक्तम् । यत्र धर्मिणि यो धर्मो यादृशो हेत्वाभासस्तत्र तयाप्यधर्मोपि
स एव हेत्वाभासो भवति विना सत्प्रतिपक्षम् । बाधव्याप्यस्तु
सत्प्रतिपक्षनामा हेत्वाभासो भिन्न एव । महर्षिणा गौतमेन पृथगुपदेशात्
अविरोधाच्च (दीधि ० २ हेत्वा० पृ० २०४ ) ( मुक्ता ० २ पृ० १६७)
इति । कणादप्रशस्तपादादीनां वैशेषिकाणां नये हेत्वाभासस्त्रिविधः
असिद्धिः विरोधः संदिग्धत्वं चेति । संदिग्धत्वमनैकान्तिकत्वम् । अत्रेदं
तात्पर्यम् । बाधसत्प्रतिपक्षौ तु काश्यपीये ( काणादे ) मते न
स्वतन्त्रौ । तत्र बाघ आश्रयासिड्यादौ अनैकान्तिके वा पर्यवस्यति ।
अत्रेदमाकूतम् । पक्षस्य साध्यशून्यत्वे हि बाधत्वमाहुः । तच्च साध्य-
शून्यत्वमत्र नातिरिच्यते । यत्र हि अश्वपिण्डं पक्षयित्वा अयं
गौर्विषाणित्वात् इति साध्यते तत्र साध्यस्य गोत्वस्य पक्षे वृत्तिर्नास्तीति
बाधत्वं वाच्यम् । तच्च कणाद मतेनैकान्तिकत्वमेव । अत्रासिद्धिरण्यस्ति ।
पक्षेश्वपिण्डे विषाणित्वविरहात् । अत एवाहुः बाधोयमपक्षधर्मो हेतुर-
नैकान्तिको वा ( त० व० ३१२ श्लो० ५२-५२ पृ० ८३ ) (वै०
उ० ३।१।१७ पृ० १६१ ) इति । सत्प्रतिपक्षोप्यन्यतरत्र व्याप्त्यादि-