न्यायकोशः /113
This page has been fully proofread once and needs a second look.
५९
( मुख्यवृत्त्या ) धातुना गतिः ( विभागजनकक्रिया ) निर्दिश्यते तन्नि-
र्दिष्टविषयम् । यथा अश्वात्पतति । द्वितीयम् - यत्र धावन्तरार्था स्वार्थ
धातुराह तदुपात्तविषयम् । समभिव्याहृतधातुनोपात्तो लक्षितो गतिरूपो
विषयो यत्रेति व्युत्पत्तिः (वै० सा०द० १९२) । स्वविषयक्रियाघटित-
श्रूयमाणक्रियान्तरमित्यर्थः । यथा बलाहकाद्विद्योतते विद्युदित्यादौ । अत्र
निःसृत्य इत्यध्याहार्यम् । तथा च निःसरणाङ्गे विद्योतने युतिः ( द्युत्-
धातुः ) वर्तते । द्युतिश्च लक्षणया निःसरणपूर्वक विद्योतनबोधक इति
यावत् (वै० सा० ) । एवं च बलाहकाद्विद्योतते विद्युत् इत्यादिवा-
क्यात् बलाहकावधिकनिःसरणोत्तरकालिकं विद्युत्कर्तृकं विद्योतनम् इति
बोध: ( वै० सा० द० १९२ ) ( ल० म० १०८ ) । तृतीयम्-
अपेक्षिता क्रिया यत्र तदपेक्षितक्रियम् । अनुपात्तधात्वर्थक्रियासाकाङ्क्ष-
मित्यर्थः ( वै० सां० द० १९२ ) । यथा कुतो भवान् पाटलिपुत्रादि-
त्यादौ । अत्रागमनमर्थगव्याहृत्य आगतः इति पदं वाध्याहृत्यान्वयः कार्यः
( बै० सा० द० १९२ ) । नैयायिकास्त्वित्थं व्याचक्षते - यत्र विभाग-
स्तज्जनकक्रिया चोभयं धातुनाभिधीयते तदाद्यम् । यत्र विभागो-
ध्याहृतधातुनाभिधीयते तद्वितीयम् । यत्र तूभयमध्याहृतधात्वभिधेयम्
तत्तृतीयम् इति ( वै० सा० द० १९२ - १९३ ) ।
<अपानः
(वायुः ) [क] गुदादीनामध उन्नयनादपान: ( दि०
१९८५ ) । [ ख ] मलादेरधो नयनादपानः ( सि० च० ११८ ) ।
<अपार्थकम्
( निग्रहस्थानम् ) [ क ] पौर्वापर्यायोगादप्रतिसंबद्धार्थम् ।
( गौ० ५/२/१० ) । यत्रानेकस्य पदस्य वाक्यस्य वा पौर्वापर्येणान्च-
ययोगो नास्तीत्यसंबन्धार्थत्वं गृह्यते तत्समुदायोर्थस्यापायादपार्थकम् ।
यथा दश दाडिमानि षडपूपाः कुण्डमजाजिनं पललपिण्ड: अधरोरुकमे-
तत्कुमार्याः स्फैय्यकृतस्य पिता प्रतिशीन इति (वात्स्या० ५/२/१०) ।
[ख] अभिमतवाक्यार्थबोधानुकूलाकाङ्क्षादिशून्यबोधजनकपदम् । उदा-
हरणं तु अयोग्यानासन्नानाकाङ्क्षवाक्यम् ( गौ० दृ० ५/२/१० )
-