This page has not been fully proofread.

१०७२
 
न्यायकोशः ।
 
वा
 
त्वम् ( दीधि० २ अवय० पृ० १७६ ) इति । अन्ये तु अनुमितिहेतु-
ज्ञानकरणघूमवत्त्वात् इति शब्दजन्यज्ञानवृत्तिप्रतिज्ञादिजन्यज्ञानावृत्ति-
जातियोगिज्ञानजनकवाक्यत्वम् इत्याहुः (चि० अव० २ पृ० ७८-७९)।
तथान्यत्रान्यदप्युक्तम् । प्रकृतपक्षान्वितस्वार्थबोधक पदोपस्थापितार्थान्वित-
स्वार्थबोध कन्यायावयवत्वम् । अत्र निगमनवारणाय उपस्थापित इत्यन्तं
दत्तम् ( दीघि ० २ अवय० पृ० १७७ ) । स्वार्थविशिष्ट वैशिष्ट्यबोध -
जनकन्यायावयवत्वं वा । तथा हि एकवाक्यतया हेत्वर्थविशिष्टसाध्यस्य
वैशिष्ट्यं भासते न पुनरवयवान्तरार्थविशिष्टस्य कस्यचित् ( दीधि० २
अवय० पृ० १७७) इति । विशिष्टवैशिष्ट्यबोधजन कस्वार्थोपस्थितिजनक-
न्यायावयवत्वं वा । विशिष्टबोधजनकस्वार्थ विशिष्टबोध जनकन्यायावयवत्वं
( दीधि ० २ अवय० पृ० १७७) । प्रकृतपक्षतावच्छेदका-
वच्छिन्नान्वित स्वार्थबोधजनक
हेतु विभक्तिवदितत्वे सति प्रकृतहेतुतावच्छे-
दकावच्छिन्नहेतुविशिष्टहेतुत्वविषयिताबहिर्भूतविषयिताशून्यबोधजनकवा-
क्यत्वं वा । अत्र विषयितायां तादृशविषयिताबहिर्भूतत्वं च तादृश--
विषयिताशा लिनिश्चयत्व समनियत प्रतिबन्धकतानवच्छेदकत्वम्
( ग०
अव० प्रतिज्ञाप्र० पृ० ४२ ) ( हेतुग्रन्थे० पृ० ५० ) । तद्यथा
एतद्भूमात् इति शब्दवृत्त्यवयव विभाजकोपाधिमत्त्वम् ( न्या० म० २
पृ० २३ ) । अत्र एष चासौ धूमात् इति शब्दच इति विग्रहः ।
एतत् अयं शब्दो वह्निधूमन्यायघटकपरः । एवमुदाहरणादिलक्षणेपीयमेव
रीतिर्बोध्या ( म० प्र० २ पृ० ३३ ) । [ ख ] साध्यसाधनम् ( गौ०
१ । १ । ३४ ) । साध्यतावच्छेदकावच्छिन्नसाध्यान्वितज्ञापकत्वबोधकः
साध्यान्चित स्वार्थबोधको वावयवः इति फलितार्थः (गौ० वृ० १ । १ । ३४ ) ।
[ग] प्राचीनास्तु पञ्चम्यन्तलाक्षणिक पदवन्यायप्रविष्टवाक्यं हेस्ववयवः
इत्याहुः ( म० प्र० २ पृ० ३३ ) । सोयं हेतुर्द्विविधः अन्वयिहेतुः
व्यतिरेकिहेतुश्चेति । उदाहरणसाधर्म्या साध्यसाधनं हेतुः । तथा वैधर्म्यात्
( गौ० १।१।३४ - ३५) इति सूत्रद्वयमत्रानुसंधेयम् । परे तु
तृतीयोन्वयव्यतिरेकी इत्यपि वदन्ति ( गौ० वृ० १ । १ । ३४ ) ।
हेतुमत् - कार्यम् । यथा हेतुहेतुमतोः इत्यादौ हेतुमत् इति शब्दस्यार्थः ।
 
HAY