2023-12-26 08:07:31 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

१०६८
 
न्यायकोशः ।
 
1
 

 
निपात्यादत्ते ( श्रुतिः ) इत्यर्थवादे श्वेनसाम्येन प्रकृतयागस्तवनात् ।

अभिचरन् शत्रुवधं कामयमानः । तथा च श्येननामको यागः शत्रुवध -

रूपेष्टसाधनवे सति कृतिसाव्यः इत्यन्वयबोध: ( म० प्र० ख० ४

पृ० ६१) । अत्रत्यविषयस्तु अभिचारशब्दव्याख्यानावसरे संपादितो

दृश्यः । हिंसा च द्रोहेण जन्यते ( गौ० वृ० ४ । १ । ३ ) । अत्रेदमधिकं

विज्ञेयम् । भोक्तानुमन्ता संस्कर्ता क्रयिविक्रयिहिंसकाः । उपहर्ता घातयिता

हिंसकाश्चाष्टधा मताः ॥ ( काशीख ० ) ( मनु० ५/५१) इति ।

१ तस्माद्यज्ञे वधोवैव[१]धः ( मनु० अ० ५ श्लो० ३९) इति या वेद-

विहिता हिंसा नियतास्मिंश्चराचरे । अहिंसामेव तां विद्याद्वेदाद्धर्मो

हि निर्बभौ ॥ ( मनु० अ० ५ श्लो० ४४ ) इति च मनुनोक्तत्वाद्या-

गीया हिंसा अहिंसैव । अत्रायं भावः । वैधपशुहिंसा राजसत्वेन

न ब्राह्मणविषया । अपि तु काम्यविषयकत्वेन क्षत्रियादिविषयैव ।

(तत्रापि तस्या नरकसाधनत्वमस्त्येव । घृतपिष्टादिरूपपशूनां तु न काम्य-

विषयत्वम् । अपि तु मोक्षफलकतत्त्वज्ञानसाधनयागाङ्गत्वमेव । तथा च

मनुः कुर्याद्धृतपशुं संगे कुर्यात्पिष्टपशुं तथा । न त्वेव तु वृथा हन्तुं

पशुमिच्छेत्कदाचन ॥ ( मनु० अ० ५ श्लो० ३७) इति । अत्र

संगे इत्यस्य सम् सम्यक् गम् गतिः इति व्युत्पत्या सम्यग्ज्ञानम्

इत्यर्थः । तत्त्वज्ञानम् इति यावत् । संगे इत्यस्य आसक्तौ पशुबलि

स्मार्तकर्मणि वा इत्यादिकं तु कुल्लूकभट्टराघवानन्दादी नामपव्याख्यानमेव ।

ननु पश्चिष्ट्यादौ हिंसाया वैधत्वेन मनुवचनादहिंसात्वमेवेति न तद्धिंसाया

नरक प्रयोजकत्वम् इति चेन्न । मा हिंस्यात्सर्वा भूतानि इति शास्त्रेण

तद्धिंसाया अपि निषेधात् । न च मा हिंस्यात्सर्वा भूतानि इति सामान्य-

शास्त्रं विशेषशास्त्रेण अग्नीषोमीयं पशुमालभेत इत्यनेन बाध्यते इति

वाच्यम् । विरोधाभावात् । विरोधे हि बलीयसा दुर्बलं बाध्यते । न

चास्ति विरोधः । भिन्नविषयत्वात् । तथा हि मा हिंस्यात् इति निषेधेन

हिंसाया अनर्थहेतुभावो ज्ञाप्यते न पुनरक्रत्वर्थत्वमपि । अग्नीषोमीयं

पशुमालभेत इत्यनेन तु पशुहिंसायाः क्रत्वर्थत्वमुच्यते । न त्वनर्थ-

 
[^
१ वधः अवधः इति पदच्छेदः ।
 
Sipastin
 
]