This page has not been fully proofread.

न्यायकोशः ।
 
१०६७
 
इत्यादौ । २ आलंकारिकास्तु हास्यस्थायिभावको रसविशेष इत्याहुः ।
तदुक्तम् विकृताकारवाग्वेषचेष्टा देः कुहकाद्भवेत् । हासो हास्यस्थायिभावः
श्वेतः प्रमथदैवतः ॥ (सा० द० परि० ३ श्लो० २१४ इति ।
हि – (अव्ययम् ) १ हेतुः । २ अवधारणम् । ३ विशेषः । ४ प्रश्नः ।
५ संभ्रमः । ६ हेतूपदेशः । ७ असूया । ८ पादपूरणम् । ९ शोकः ।
१० वर्धनम् । ११ गतिः ।
 

 
हिंसा – १ [क] नवीनमते अनुनिष्पादितमरणफलकव्यापारः (चि० ४ ) ।
स च कार्याश्रयस्य शरीरस्य स्वविषयोपलब्धेश्च कर्तॄणामिन्द्रियाणां वधः ।
तदर्थस्तु कार्य सुखदुःखसंवेदनम् । तस्यायतनमधिष्ठानमाश्रयः शरी-
रम् इति । वधोत्र उपघात: पीडा वैकल्यलक्षणः प्रबन्धोच्छेदो या
प्रमापणलक्षणो वा (वात्स्या० ३।१।६) । प्राचीनमते तु हिंसा
[ख ] साक्षान्मरणानुकूलव्यापारः ( दि० गु० पृ० २२९ ) ।
[ग] दृष्टमरणोद्देशेनानुष्ठीयमानत्वे सति अदृष्टाद्वारकमरणानुकूल-
·
 
पारः ( म० प्र० ४ पृ० ६१ ) । यथा मां हिंस्यात्सर्वा भूतानि
इत्यादौ न हिंस्यात्सर्वाणि भूतानि इत्यादौ च हिंसा । यथा वा अहिंस-
न्सर्वभूतान्यन्यत्र तीर्थेभ्यः ( श्रुतिः ) इत्यादौ च हिंसाशब्दस्यार्थः ।
अत्र दृष्टमरणेत्यनेन विशेषणेन कूपादौ गवि विनष्टे सति तत्कूपकर्तु-
र्गोवध कर्तृत्वप्रसङ्गः निवारित इति बोध्यम् । अदृष्टाद्वारकेत्यनेन विशेषणेन
गङ्गामरणमुद्दिश्य कृतत्रिसंध्यस्तव पाठादेहिंसात्वं निवारितम् । अत एव
श्येनेनाभिचरन् यजेत इत्यत्र श्येनस्य न हिंसारूपत्वम् । श्येनेनादृष्ट-
द्वारैव शत्रुमरणजननात् ( म० प्र० ४ पृ० ६१ ) । तथा हि श्येनो
हि वधसाधनम् । न तु नरकसाधनम् । श्येनाच्च वधो वधाच्च नरकः
इत्येतस्मादेव हेतुमात्रादास्तिकानां न श्येनादौ प्रवृत्तिः ( न्या० म० ४
पृ० २७ ) इति । प्राचीनमते इयेनो न स्वरूपतो निषिद्धः । किंतु फलतो
निषिद्धः । नव्यनैयायिकानां मते तु श्येनः स्वरूपत एव निषिद्धः । अतस्तत्र
हिंसात्वमस्त्येवेति ज्ञेयम् ( न्या० म० ४ पृ० २७) । अत्र श्येन इति
कर्मनामधेयम् । यथा वै श्येनो निपात्यादत्ते एवमयं द्विषन्तं भ्रातृव्यं