न्यायकोशः /1120
This page has not been fully proofread.
१०६६
न्यायकोशः ।
सघृतस्य करादेः प्रसारणन्युज्जीकरणादिरेव । अत एव घृतादेः परि-
त्यागित्व विरहादृत्विज।देर्न यष्टृत्वम् । किंतु होतृत्वमेव इति विज्ञेयम् ।
अत्र धात्वर्थघटकपतने घृतस्याधेयत्वेनान्वयः । तथा च अन्यधिकरण-
कस्य वृतवृत्तिपतनस्यानुकूलमन्त्रकरणकक्रियावान् इत्येवं तत्र बोधो
भवति इति विज्ञेयम् ( श० प्र० श्लो० ७३ टी० पृ० ९५ ) ।
[घ ] वहिसंयोगावच्छिन्न पतनानुकूलमन्त्रकरणकक्रिया । यथा घृतं
जुहोति इत्यत्र दुधात्वर्थः । अत्र वह्निसंयोगजनकं यद्धृतस्य पतनम्
तदनुकूलमन्त्रकरणकक्रियाविशेषवान् इत्याकारको बोध: ( श० प्र०
श्लो० ७३ टी० पृ० ९५) । [ङ ] वैध आधारे हविषः प्रक्षेपः इति शा-
ब्दिका वदन्ति ।[ च ] देवतोद्देश्यकोग्नौ मन्त्रपूर्वकं हविःप्रक्षेपः । यथा
ऋत्विजो जुहृति इत्यादावपि ऋत्विजां होतृत्वम् । अत्र प्रक्षेपश्च अग्निसं-
योगानुकूलक्रियानुकूलघृतादिवृत्तिनोदनादिव्यापारः (का० व्या० का० ४
पृ० ५) । [ छ ] नवीनमते तु विशिष्टदेशावच्छिन्नप्रक्षेपोपहितत्यागो
हवनम् ( दायभाग ० ) ( का० व्या० का० ४ पृ० ५ ) इति ज्ञेयम् ।
हविष्वम् —–व्यागकर्मध्वम् । यथा मन्त्रकरणकहविस्त्यागः इत्यादौ ग्रन्थे
हविःशब्दस्यार्थः ( त० प्र० ख० ४ पृ० १२३ ) । हविर्द्रव्यं तु
आज्यपशुपुरोडाशादि यथाविधि विज्ञेयम् ।
हानम् – १ [ क ] निवृत्तिप्रयोजकमनिष्टसाधनताज्ञानम् । खानिष्टसाधन-
ताप्रकारकं ज्ञानम् इत्यर्थः (प० च० ) । [ ख ] दुःखसाधनवज्ञानम् ।
यथा सर्पो मे दुःखसाधनम् इति ज्ञानम् ( सि० च० १ पृ० २१ ) ।
२ केचित्तु ज्ञानम् । तच्च क्वचित् तत्त्वज्ञानम् इत्याहु: ( न्या० वा०
पृ० ४ ) । ३ काव्यज्ञास्तु परित्यागः ( इच्छाविशेषः ) । यथा हिमहान-
। कृता न कृता वचन (भट्टि: १०।५) इत्यादौ हानशब्दार्थ इत्याहुः ।
हांसः - १ [ क ] प्रीत्या मुखकमलादेर्विकासः । यथा हसति इत्यादौ हस्-
धात्वर्थः।[ख] कण्ठोष्ठपुटविस्फूर्जनपुरःसरं अहहह इत्यगृहासः ( सर्व
० पृ० १६९ मकु० ) इति पाशुपता आहुः । [ग] दोषदर्शनपूर्वको
हासः । यथा ततो जहासातिरुषा भीमं भैरवनादिनी (सप्तश० ७ १९ )
-
सं०