This page has not been fully proofread.

न्यायकोशः ।
 
( ग० व्यु० ५ । २१ ) । अत्र स्व विभागाश्रयो वृक्षः । तन्निष्ठः क्रियावतः
पर्णात्सकाशात् भेदः । तत्प्रतियोगितायाः पर्णनिष्ठाया अवच्छेदिका पतन-
क्रिया। तज्जन्यविभागाश्रयत्वं वृक्षस्येति । अत्र क्रियायां स्वनिष्ठभेदप्रति-
योगितावच्छेदकत्वविशेषणेन पर्णादेः स्वनिष्ठवृक्षादिविभागजनकपतनापा-
दानत्वनिरास इति ज्ञेयम् (ग० व्यु० ५/२१) । [ ग ] परकीय क्रिया-
जन्य विभागाश्रयत्वम् ( का० व्या० ९ ) । यथा वृक्षात्पर्ण पततीत्यादौ
वृक्षादेरपादानता । अत्र पञ्चम्या अन्योन्याभावप्रतियोगितावच्छेदकत्वं
विभागजनकत्वं चार्थः । विभागे अन्योन्याभावे च वृक्षोन्वेति ( का०
व्या० ९ ) । तथा च वृक्षनिष्ठभेदप्रतियोगितावच्छेदकं तन्निष्ठविभाग-
जनकं च यत् पतनं तदाश्रयः पर्णमित्याकारको बोध: ( ग० व्यु ०
५।२१)। [घ] अवघित्वम् । यथा वृक्षाद्विभजत इत्यादौ वृक्षादेर-
पादानता (ग० व्यु० ५/२१ ) । अत्र वृक्षाद्यवधिकत्व विशिष्टविभाग-
निरूपितमेवाश्रयत्वमाख्यातेन बोध्यते । अतो वृक्षः स्वस्माद्विभजते इति
(न प्रयोगः (ग० व्यु० ५/२१ ) । विशेषस्तु पञ्चमीशब्दव्याख्याने
व्यक्तीभविष्यति । शाब्दिकमते अपादानं च [ङ ] ध्रुवमपायेपादानम्
( पाणिनिसूत्रम् ॥४॥२४ ) । अपाये विभागे ध्रुवं निश्चलम् प्रकृत-
पञ्चम्यर्थ विभागजनकत्वान्वयिक्रियाशून्यमित्यर्थः ( का० व्या ० ९ ) ।
 

 
तत्रोक्तं हरिणा- अपाये यदुदासीनं चलं वा यदि वाचलम् । ध्रुवमेवा-
• तदावेशात्तदपादानमुच्यते ॥ पततो ध्रुव एवाश्वो यस्मादश्वात्पतत्यसौ ।
तस्याप्यश्वस्य पतने कुड्यादि ध्रुवमुच्यते ॥ उभावष्यध्रुवौ मेषौ यद्यप्यु -
भयकर्मजे । विभागे प्रविभक्ते तु क्रिये तत्र व्यवस्थिते ॥ मेषान्तर-
•क्रियापेक्षमवधित्वं पृथक् पृथक् । मेषयोः स्वक्रियापेक्षं कर्तृत्वं च पृथक्
पृथक् ॥ इति । अपाये गतिविशेषे सति यद्भुवम् अवधिभावोपगमाश्रयत्वे
 
सति
 
तदतिरिक्तस्यावधित्वोपयोगिव्यापारस्यानाश्रयं
 
तदपादानमिति
 
सूत्रार्थ: । अस्य पदकृत्यं शब्देन्दुशेखरे स्पष्टम् । [ च ] विश्लेषाश्रयत्वे
• सति विश्लेषजनकधात्वर्थतत्तत्क्रियानाश्रयः ( वै० सा० ) । [छ ]
• अवधिभावोपगमव्यापारम् (ल० म० ) । अपादानं त्रिविधम् । निर्दिष्ट -
 
.