This page has not been fully proofread.

न्यायकोशः ।
 
१०६५
 
हन्ति कृशोदरि इत्यादौ हन्तेरर्थः इत्याहुः । ३ गुणकास्तु गुणनम् ।
यथा त्रिभिर्हतम् सप्तभिर्हतम् इत्यादौ हनधात्वर्थः इत्याहुः ।
हन्त – ( अव्ययम् ) १ हर्षः । २ अनुकम्पा । ३ विषादः । ४ वाक्या-
रम्भः । ५ आर्तिः । ६ वादः । ७ संभ्रमः । ८ खेदः ( शब्दच ० )
( मेदि० ) । ९ अन्तःकल्पनम् ( अजयपाल : ) ( वाच० ) ।
हरिवासरः - द्वादश्याः प्रथमः पादो हरिवासरसंज्ञकः ( पु० चि०
पृ० २१२ ) ।
 
हर्षः-१ [ क ] चित्तोत्साहः । स च कचित् मिथ्याकारणं भवति ।
यथा हृष्टो दर्पति दृप्तो धर्ममतिक्रामति धर्मातिक्रमे खलु पुनर्नरकः
( आपस्त० ६० सू० ) इत्यादौ हृषधात्वर्थः । [ख] इष्टाधिगमजन्य
आनन्दः । [ग] अभिप्रेतविषयक प्रार्थना प्राप्तौ सुखानुभवो हर्षः (न्या०
वा० ) । २ पौराणिकास्तु कन्दर्पपिता इत्याहुः (वामनपु० अ० ५ ) ।
३ आधुनिकास्तु कलियुगीयो राजविशेषः । यथा हर्षचरितम् इत्यादौ
हर्षशब्दार्थः इत्याहुः ।
 
हवनम् - [क] प्राचीनमते अग्निसंयोगावच्छिन्नक्रियानुकूलैव्यापारः। यथा
• संस्कृते नौ घृतं जुहोति इत्यत्र जुहोत्यर्थः (ग० व्यु० का ० २ पृ० ४२ ) ।
 
[ख] अग्निसंयोगानुकूलक्रियानुकूलघृतादिवृत्तिनोदनादिव्यापारः ( दि०
गु० धर्मनि० पृ० २३४ ) । यथा घृतं जुहोति इत्यादौ हुधा-
त्वर्थः । अत्र घृतवृत्त्यग्निसंयोगावच्छिन्नक्रियानुकूलव्यापारानुकूलकृति-
। मान् इत्यन्वयबोध: ( का० व्या० का० ४ पृ० ५ ) । [ग] ]
 
वयधिकरणकपतनावच्छिन्न मन्त्रकरणकक्रिया । यथा घृतं जुहोति इत्यादौ
• दुधातोरर्थः । वहौ जुहोति इत्यत्र सप्तम्यन्तस्यार्थो न धात्वर्थनिविष्टे
पतनेम्वेति । वह्निवृत्तित्वविशिष्टपतने तद्वृत्तित्वस्यान्वये निराकाङ्क्षतापत्तेः ।
• परंतु तदवच्छिन्नक्रियायामेवान्वेति । प्रतिमादौ घृतादिस्नपनं मन्त्र-
● करणकमपि नाभ्यधिकरणकम् । वहौ घृतस्य प्रक्षेपमात्रमध्यधिकरणक-
तस्पतमानुकूलमपि न मन्त्रकरणकम् । अतस्तदुभयं न होमः । प्राजापत्येपि
होमे मानस एव मन्त्रः करणम् इति स होमः । तादृशी क्रिया चात्र
 
१३४ न्या० को०