This page has not been fully proofread.

१०६२
 
न्यायकोशः ।
 
रूपम् । अत्र भाष्यम् । अनुमानम् द्विविधम् दृष्टं सामान्यतोदृष्टं च ।
तत्र दृष्टम् प्रसिद्धसाव्ययोरत्यन्तजात्यभेदेनुमानम् । यथा गव्येव सास्ना -
मात्रमुपलभ्य देशान्तरे सास्नामात्रदर्शनादौरिति प्रतिपत्तिर्भवति । प्रसिद्ध-
साध्ययोरत्यन्तजातिभेदे लिङ्गानुमेयधर्मसामान्यानुवृत्तितोनुमानं सामान्य-
तोदृष्टम् । यथा कर्षकवणिग्राजपुत्राणां प्रवृत्तेः साफल्यमुपलभ्य वर्णा-
श्रमिणामपि दृष्टं प्रयोजनमनुद्दिश्य प्रवर्तमानानां फलानुमानमिति । तत्र
लिङ्गदर्शनं प्रमाणम् । प्रमितिरग्निज्ञानम् । अथ वाग्निज्ञानमेव प्रमा-
णम् । प्रमितिरग्नौ गुणदोषमाध्यस्थ्यदर्शनम् । तत्स्वनिश्चितार्थमनुमानम्
( प्रशस्त ० २ गु० पृ० ४५ ) इति । स्वार्थानुमानस्य प्रयोजनं तु खस्यै-
वानुमिति: ( त० सं० ) । तथा हि कश्चित्पुरुषः स्वयमेव भूयोदर्शनेन
यत्र धूमस्तत्राग्निः इति महानसादौ व्याप्तिं गृहीत्वा पर्वतसमीपं गतस्तद्गते
चाग्नौ संदिहानः पर्वते वर्तिनी मविच्छिन्नमूलामलिहां धूमलेखां पश्यन्
धूमदर्शनादुद्रुद्धसंस्कारो व्याप्तिं स्मरति यत्र धूमस्तत्राग्निः इति । तदन-
न्तरं वह्निव्याप्यधूमवानयं पर्वतः इति ज्ञानमुत्पद्यते । अयमेव लिङ्ग-
परामर्श: इत्युच्यते । तस्मात् पर्वतो वह्निमान् इति स्वस्य ज्ञानमनुमिति -
रुत्पद्यते । तदेतत्स्वार्थानुमानम् ( त० सं० ) ( त० भा० पृ० ११ ) ।
२ स्वप्रयोजनम् । यथा मनीषिणः स्वार्थमुद्दिश्य प्रयतन्ते इत्यादौ स्वार्थ -
शब्दस्यार्थः । ३ स्वामिधेयः । यथा स्वार्थकः स्वार्थबोधकृत् इत्यादौ
स्वार्थशब्दस्यार्थः ( शब्द० च० ) । ४ व्यवहारशास्त्रज्ञास्तु स्वस्वत्व कं
धनं स्वार्थम् इत्याहुः ।
 
-
 
4
 
स्वाहा - १ [ क ] अग्निप्रक्षेपोपहितदेवोद्देश्यकत्यागः । यथा इन्द्राय
स्वाहा इत्यादौ स्वाहाशब्दस्यार्थ: ( ग० व्यु० का० ४ पृ० १०० )
(अमरः ३।४।८) । वेदादेशितोच्चारण कर्तृत्वोपलक्षितपुरुषीयत्यागः
इति फलितोर्थः । तेन तान्त्रिकपूजायामर्थ्याचमनीयादिदाने स्वाहास्वधा -
शब्दप्रयोग उपपद्यते ( ग० व्यु० का० ४ पृ० १०१ ) । [ख]
स्वत्वकरणको हविस्त्यागः । यथा इदमग्नये स्वाहा इत्यादौ स्वाहा-
शब्दस्यार्थः । अत्र देवोद्देश्यकस्य स्वाहापदकरणकस्य हविस्त्यागस्य कर्मेदम्