This page has not been fully proofread.

न्यायकोशः ।
 
१०६१
 
२ अध्ययनकर्म आम्नायादि । यथा स्वाध्यायोध्येतव्यः (श्रुतिः) इत्यादौ
स्वाध्यायशब्दस्यार्थः । ३ अर्थानुसंधानपूर्वकमन्त्रजपादिः इति नारद-
पञ्चरात्रविद आहुः । तदुक्तम् स्वाध्यायो नाम अर्थानुसंधानपूर्वको
मन्त्रजपो वैष्णवसूक्तस्तोत्रपाठो नामसंकीर्तनं तत्त्वप्रतिपादकशास्त्राभ्यासश्च
( सर्व० सं० पृ० ११७ रामानु० ) इति । ४ प्रणवगायत्री प्रभृतीनाम-
ध्ययनं स्वाध्यायः ( सर्व० सं० पृ० ३६७ पात० ) ।
 
-
 
स्वापः – १ [ क ] स्वप्नः । [ ख ] निद्रा इति काव्यज्ञा आहुः । [ ग ]
सुषुप्तिः । २ अज्ञानम् इति वेदान्तिन आहुः । स्पर्शाज्ञता इति मेदिनी-
कार आह । ३ स्वप्नज्ञानम् ( कृष्णं ० )।
 
-
 
स्वाभाविकम् – यस्मिन्सति कारणविलम्बाद्विलम्बो यस्योत्पत्तौ न भवति
तस्य तत्स्वाभाविकम् । यथा न ह्यग्नेः स्वाभाविकादौष्ण्यान्मोक्षः संभवति ।
स्वाभाविकस्य यावद्रव्यभावित्वात् । जलस्य शीतस्पर्शः स्वाभाविकः ।
इत्यादौ ग्रन्थे स्वाभाविकशब्दस्यार्थः ।
 
खारसिकः— सकलजनसाधारणः ( कृष्णं० ) । सकलजनाभिप्रेतः । यथा
•• कश्चन सुष्टु शब्दप्रयोगः स्वारसिकः ।
 
स्वारसिकलक्षणा – (लक्षणा) अधुनातनतात्पर्यविषयीभूतार्थनिष्ठा लक्षणा ।
यथा वटे गाव: शेरते इत्यादौ वटपदस्य वटसमीपे लक्षणा । गङ्गायां घोषः
इत्यादौ घोषपदस्य मत्स्यादौ या लक्षणा सा स्वारसिकी । अत्र व्युत्पत्तिः
स्वस्य वक्तुः रसः इच्छा तदधीना लक्षणा इति ।
 
स्वार्थम्
 
-
 
–१ (अनुमानम् ) [क] न्यायाप्रयोज्यानुमानम् ( न्या० बो० २
पृ० १५) । अत्रार्थे स्वार्थशब्दस्य व्युत्पत्तिरर्थश्च स्वस्यार्थः प्रयोजनं साध्य -
संशयनिवृत्तिरूपम् यस्मात् इति व्युत्पत्त्या स्वीयसंशयनिवृत्तिप्रयोजनकमनु-
मानम् (नील० २ पृ० २०) इति । तच्च ज्ञानात्मकम् ( न्या० बि० परि०
२ टी० पृ० २१ ) । व्याप्तिपक्षधर्मतासंवेदनम् (न्या० ली० पृ० ५९ )
इत्यन्यत्रोक्तम् । [ ख ] यत्तु स्वयमेव महानसादौ विशिष्टेन प्रत्यक्षेण
धूमायोर्व्याप्ति गृहीत्वा पर्वते धूमं पश्यन्वह्निमनुमिनोति तत्स्वार्थानुमानम्
) ( त० भा० पू० ११) । तच्चार्थज्ञानरूपम् न तु परार्थानुमानवच्छन्द-