2023-12-26 07:55:53 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
१०५७
 
<स्वरूपयोग्यत्वम्>
( जनकवादिकम् ) तदवच्छेदकधर्मवत्त्वम् । यथा अर

ण्यस्थस्यापि दण्डस्य घटं प्रति जनकत्वं स्वरूपयोग्यत्वम् ( सि० च० १

पृ० २० ) । अत्र च अरण्यस्थदण्डस्यापि घटकारणतायामवच्छेदकी-

भूतदण्डत्ववत्त्वात्स्वरूपयोग्यत्वरूपं जनकत्वं युज्यत इति बोध्यम् । यथा

वा परमाणुवृत्तिरूपादेश्चक्षुरविषयत्वेपि चक्षुर्विषयत्वस्वरूपयोग्यत्वम् ।

दर्जन्यज्ञान विषयत्वावच्छेद की भूतधर्मवत्त्वम् इति । स च धर्मोत्र

रूपत्वम् । तच्च परमाणुवृत्तावपि रूपादौ वर्तत इति सर्वे सुस्थम् ।

 
<
स्वरूपलक्षणम्>
स्वरूपान्तर्गतत्वे सति व्यावर्तकम् ( सर्व० सं० yo
 

४६६ शां० ) ।
 

 
<
स्वरूपसंबन्धः - >
संबन्धान्तरेण विशिष्टप्रतीतिजननायोग्यत्यम् (चि० १) ।

यथा भूतले घटो नास्ति इत्यादौ घटाभावादेर्भूतलेन संबन्धः । स

द्विविधः केवलस्वरूपः विशेषणता चेति । तत्रायो भावाभावान्यतर-

प्रतियोगिकः । यथा आधेयत्वप्रतियोगित्वादीनां संबन्ध: । द्वितीय-

स्त्रिविधः दैशिकविशेषणता दिक्कृत विशेषणता कालिक विशेषणता चेति ।

तत्राद्यश्चाभावमात्रप्रतियोगिकः । यथा भूतलादिना घटाभावादीनां

संबन्धः । द्वितीयतृतीयौ तु दिक्कालानुयोगिकौ जन्यमात्रप्रतियोगिकौ च ।

यथा गन्धघटादीनां संबन्धौ दिक्कालाभ्याम् इति । इमावेव सर्वाधारता -

प्रयोजकसंबन्धौ इति जेगीयेते ( त० दी० १ कालनि० १० १० ) ।

अत्राहुः । स्वरूपसंबन्ध इत्यस्य अनुयोगिप्रतियोग्यन्यतरस्वरूपः संबन्ध-

विशेषः इत्यर्थः । यद्वा स्वरूपसंबन्धो धर्मिद्वयात्मकः । अथ वा ष-

पदार्थातिरिक्तः भावरूपः पदार्थविशेषः वरूपसंबन्धः इति ।
 

 
<
स्वरूपासिद्धः>
( हेत्वाभासः ) [ क ] यो हेतुराश्रये नावगम्यते सः ।

यथा सामान्यमनित्यं कृतकत्वात् इत्यादौ कृतकत्वं स्वरूपासिद्धम् । अत्र

कृतकवं हेतुराश्रये सामान्ये नास्ति ( त० भा० ३० पृ० ४५) ।

यथा वा शब्दो गुणश्चाक्षुषत्वात् इत्यादौ चाक्षुषत्वं स्वरूपासिद्धम् । अत्र

चाक्षुषत्वं शब्दे पक्षे नास्ति शब्दस्य श्रावणत्वात् इति चाक्षुषत्व स्वरूपा-

सिद्धं भवति इति ज्ञेयम् ( त० सं० ) । अयमेव हेतुः शुद्धासिद्धः
 

१३३ न्या० को०