2023-12-26 07:55:07 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

१०५६
 
न्यायकोशः ।
 
इति । ३ तान्त्रिकिास्तु प्राणादिवायोर्व्यापार विशेष इत्याहुः । ४ भिषजस्तु

प्रकुपितवायोर्व्यापारविशेष इत्याहुः ( सुश्रुते ) । ५ गायकास्तु निषादा-

दयस्तन्त्रीकण्ठोत्था गानजध्वनय इत्याहुः । ते च स्वराः सप्त षड्डु ऋषभ-

गान्धारौ मध्यमः पञ्चमस्तथा । वैवतश्च निषादश्च स्वराः सप्त प्रकीर्तिताः ॥

( भरतः ) ( अमरः १ । ७ । १ ) इति । तत्र निषादादिस्वराणां प्राणि-

विशेषस्वरतुल्यता नारदोक्ता यथा षडुं रौति मयूरो हि वृषो नति

चर्षभम् । अजा विरौति गान्धारं क्रौञ्चो नर्दति मध्यमम् ॥ पुष्प-

साधारणे काले कोकिलो रौति पञ्चमम् । अश्वश्च धैवतं रौति निषादं

रौतिकुञ्जरः ॥ इति (अमर० टी० ) । स्वराणामुत्पत्तिस्थानादिकं

च भरतशास्त्रादौ विज्ञेयम् । ६ केचिच्छकुनज्ञास्तु इष्टानिष्टफलसूचको

नासिकानिर्गतो वायोर्व्यापारविशेष इत्याहुः । ७ मध्वाचार्यास्तु स्वरतेस्तु

स्वरः विष्णुः इत्याहुः ( तैत्ति ० शिक्षा ० मध्यभा० पृ० १ ) ।

 
<
स्वरसः>
१ विवादशून्यत्वम् । यथा घटत्वेन घटो नास्ति इति प्रत्ययस्य

विवादशून्यत्वम् (ग० चतुर्द० खण्डन० पृ० ७२ ) । अत्र च विवाद-

विषयस्तु घटत्वेन पटो नास्ति इत्याकारको व्यधिकरणधर्मावच्छिन्न प्रतियो

गिताकाभावविषयकः प्रत्ययः इति बोध्यम् (व्यवि० अभा० खण्डन ० ) ।
}}

२ स्वाभिप्रायः । यथा वाक्यादौ रचनाभङ्गी विशेषरूपः । ३ भिषजस्तु

काथः इत्याहुः । अत्रोक्तं वैद्यके सद्यः क्षुण्णादाईद्रव्याद्वस्त्रयन्त्रादिपीड-

नातू । यो रसस्त्वभिनिर्याति स्वरसः स प्रकीर्तितः ॥ ( वाच० ) इति ।

४ अन्ये तु शिलापिष्टकल्क विशेष इत्याहुः ( शब्दर० ) ( वाच० ) ।
 

 
<
स्वरुः>
१ [क] छिद्यमानस्य यूपस्य यः प्रथमं पतितः शकलः स स्वरुः

( जै० न्या० अ० ४ पा० २ अधि० १ ) । [ ख ] स्वरुः काष्ठ-

शकलम् (जै० सू० वृ० अ० ४ पा० २ सू० १ ) । २ पश्चङ्गम्

( जै० न्या० अ० ४ पा० ४ अधि० १०) ।
 

 
<
स्वरूपम्>
१ स्वात्मकः पदार्थः । यथा घटस्वरूपं द्रव्यम् इत्यादौ स्वरूप-

शब्दस्यार्थः । काव्यज्ञास्तु २ स्वभावविशेष: ( अमरः १ नाट्य० ३८ )

३ पण्डितः ४ सुन्दरश्च इत्याहुः ( अमरः २।३।१३१ ) ।