2023-10-19 11:34:14 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
SUPIN
 
( त०. भा० ५१ ) । सौगतास्त्वपसिद्धान्तं
( गौ० वृ० ५ । २ । २३ ) ।
 
५७
 
दूषणं न मन्यन्ते
 
-
 

( गौ० वृ० ५ । २ । २३ ) ।
 
<
अपह्नवः ->
[क] अबाधितपरोक्तविपरीतबोधनाय तदुपपादकाभावप्रति-

पादनेच्छा । यथा कलिङ्गेषु दृष्टोसि । नाहं कलिङ्गाजगामेव्यादावत्यन्ताप-

हृवः ( ग० व्यु० ल० ) । अत्र च कलिङ्गाधिकरणकदर्शनादेरुपपादकं

कलिङ्गगमनादिकम् । तेन विना तदसंभवात् । अत्यन्तापह्नवः स्वरूपस-

नेव ( न तु ज्ञातः ) लिट्साधुतानियामकः ( ग० व्यु० ल० ) ।

[ ख ] सत्त्वेन ज्ञातस्यापि वस्तुनः असत्त्वेन कथनम् । स द्विविधः

शब्दतोर्थतश्चेति । तत्र मिथ्यैव तत् इति शब्दतः । अर्थतस्तु नाभि-

जानाम्यहम् । तत्र तदा न मम स्थितिः इति ( वाच० ) ।

 
<
अपादानत्वम् - >
( कारकम् ) यद्धातूपस्थाप्ययादृशार्थे विग्रहवाक्यस्थपञ्चम्या

यः स्वार्थोनुभावयितुं शक्यः तस्य तद्धातूपस्थाप्यतादृशक्रियायामपादानत्व-

मुच्यते । यथा वृक्षात्पतित इत्यादौ वृक्षादेरपादानत्वम् ( श० प्र०

७९ ) । अपगमाय आदीयते अवधित्वेनेति व्युत्पत्तिः ( वाच० ) ।

अपादानशब्दस्तु तत्तत्कर्मानधिकरणीभूते तत्तत्कर्मजन्यविभागाश्रये शक्त

इत्यवधेयम् । वृक्षात्पतित इत्यस्माद्वाक्यात् वृक्षावधिक विभागानुकूलपतन-

कर्ता इत्यन्वयबुद्धौ धातूपस्थाप्यपतने पञ्चम्युपस्थाप्यो विभागः खानु-

कूलत्वसंबन्धेन प्रकार इति स विभाग एव तत्रापादानत्वमिति विज्ञेयम्

( श० प्र० ७९ ) । अत्रावधित्वं च स्वरूपसंबन्धप्रभेदः पदार्थान्तरं

वेस्यन्यदेतत् । अपादानत्वं च [ क ] क्रियानाश्रयत्वे सति तज्जन्य-

विभागाश्रयत्वम् ( ग० अव० ) । परसमवेतक्रियाजन्य विभागाश्रयत्व-

मित्यर्थः । यथा भूभृतो गङ्गावतरतीत्यादौ भूभृतो गङ्गासमवेतक्रियाजन्य-

विभागाश्रयत्वादपादानत्वम् । गङ्गायामतिव्याप्तिवारणाय परसमवेतेति

क्रियायां विशेषणम् (श० प्र० ६) । वृक्षात्पर्णे पततीत्यादौ पर्णक्रिया

वृक्षपर्णयोर्विभागो जायते । तत्र क्रिया पर्णमात्रनिष्ठा विभागस्तूभय-

निष्ठ इति वृक्षस्य क्रियानाश्रयत्वं विभागाश्रयत्वं च संगच्छत इत्यवधे-

यम् । [ख] स्वनिष्ठभेदप्रतियोगितावच्छेदकीभूतक्रियाजन्य विभागाश्रयत्वम्
 

न्या० को० ८