This page has not been fully proofread.

न्यायकोशः ।
 
SUPIN
 
( त०. भा० ५१ ) । सौगतास्त्वपसिद्धान्तं
( गौ० वृ० ५ । २ । २३ ) ।
 
५७
 
दूषणं न मन्यन्ते
 
-
 
अपह्नवः -[क] अबाधितपरोक्तविपरीतबोधनाय तदुपपादकाभावप्रति-
पादनेच्छा । यथा कलिङ्गेषु दृष्टोसि । नाहं कलिङ्गाजगामेव्यादावत्यन्ताप-
हृवः ( ग० व्यु० ल० ) । अत्र च कलिङ्गाधिकरणकदर्शनादेरुपपादकं
कलिङ्गगमनादिकम् । तेन विना तदसंभवात् । अत्यन्तापह्नवः स्वरूपस-
नेव ( न तु ज्ञातः ) लिट्साधुतानियामकः ( ग० व्यु० ल० ) ।
[ ख ] सत्त्वेन ज्ञातस्यापि वस्तुनः असत्त्वेन कथनम् । स द्विविधः
शब्दतोर्थतश्चेति । तत्र मिथ्यैव तत् इति शब्दतः । अर्थतस्तु नाभि-
● जानाम्यहम् । तत्र तदा न मम स्थितिः इति ( वाच० ) ।
अपादानत्वम् - ( कारकम् ) यद्धातूपस्थाप्ययादृशार्थे विग्रहवाक्यस्थपञ्चम्या
यः स्वार्थोनुभावयितुं शक्यः तस्य तद्धातूपस्थाप्यतादृशक्रियायामपादानत्व-
मुच्यते । यथा वृक्षात्पतित इत्यादौ वृक्षादेरपादानत्वम् ( श० प्र०
७९ ) । अपगमाय आदीयते अवधित्वेनेति व्युत्पत्तिः ( वाच० ) ।
अपादानशब्दस्तु तत्तत्कर्मानधिकरणीभूते तत्तत्कर्मजन्यविभागाश्रये शक्त
इत्यवधेयम् । वृक्षात्पतित इत्यस्माद्वाक्यात् वृक्षावधिक विभागानुकूलपतन-
कर्ता इत्यन्वयबुद्धौ धातूपस्थाप्यपतने पञ्चम्युपस्थाप्यो विभागः खानु-
कूलत्वसंबन्धेन प्रकार इति स विभाग एव तत्रापादानत्वमिति विज्ञेयम्
( श० प्र० ७९ ) । अत्रावधित्वं च स्वरूपसंबन्धप्रभेदः पदार्थान्तरं
वेस्यन्यदेतत् । अपादानत्वं च [ क ] क्रियानाश्रयत्वे सति तज्जन्य-
विभागाश्रयत्वम् ( ग० अव० ) । परसमवेतक्रियाजन्य विभागाश्रयत्व-
मित्यर्थः । यथा भूभृतो गङ्गावतरतीत्यादौ भूभृतो गङ्गासमवेतक्रियाजन्य-
विभागाश्रयत्वादपादानत्वम् । गङ्गायामतिव्याप्तिवारणाय परसमवेतेति
• क्रियायां विशेषणम् (श० प्र० ६) । वृक्षात्पर्णे पततीत्यादौ पर्णक्रिया
वृक्षपर्णयोर्विभागो जायते । तत्र क्रिया पर्णमात्रनिष्ठा विभागस्तूभय-
निष्ठ इति वृक्षस्य क्रियानाश्रयत्वं विभागाश्रयत्वं च संगच्छत इत्यवधे-
यम् । [ख] स्वनिष्ठभेदप्रतियोगितावच्छेदकीभूतक्रियाजन्य विभागाश्रयत्वम्
 
न्या० को० ८