2023-12-26 07:54:31 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
१०५५
 
O
 
-
 
संयोगविशेषसंस्कारोभयजन्यम् तथा स्वप्नान्तिकाख्यं ज्ञानमपि ( वै

वि० ९।२।८ ) इति । स्वप्नान्तिकं यद्यप्युपरतेन्द्रियग्रामस्य भवति तथा-

व्यतीतज्ञानप्रबन्धस्य प्रत्यवेक्षणात्स्मृतिरेवेति ( प्रशस्त ० गु० पृ० २५ ) ।

२ केचित्तु स्वप्नमध्ये प्रमाभूतं यज्ज्ञानम् तत् स्वप्नान्तिकम् । यथा

शय्यायां शयानोस्मि इत्यादि इत्याहुः ( वै० उ० ९२२१८ ) ।

 
<
स्वभावः>
हेत्वन्तरानपेक्षो वस्तुधर्मविशेषः । यथा स्वभावो दुरतिक्रम:

अग्निरुष्णो जलं शीतं शीतस्पर्शस्तथानिलः । केनेदं चित्रितं तस्मा-

स्वभावात्तद्व्यवस्थितिः ॥ ( सर्व० पृ० १३ चार्वा० ) इत्यादौ स्वभाव-

शब्दस्यार्थः । तत्र प्राणिस्वभावस्तु द्विविधः निसर्गः स्वरूपं चेति ।

तदुक्तम् बहिर्हेत्वनपेक्षी तु स्वभावोथ प्रकीर्तितः । निसर्गश्च स्वभावश्च

इत्येष भवति द्विधा ॥ निसर्ग: सुदृढाभ्यासजन्यः संस्कार उच्यते ।

अजन्यस्तु स्वतःसिद्धः स्वरूपो भाव उच्यते ॥ ( उज्ज्वलदत्त०) इति ।

 
<
स्वम्>
१ [ क ] समभिव्याहृतपदोपस्थाप्यः पदार्थः ( ग० शक्ति०

पृ० ११६–११७)। निष्कृष्टार्थस्तु साक्षात्परंपरया वा यः स्वार्थस्य

विशेष्यः यश्च स्वसमभिव्याहृतक्रियाकारकपदार्थः तदुभयम् । यथा चैत्रः

स्वपुत्रं पश्यति इत्यादौ स्वपदार्थ : ( ग० शक्ति० पृ० १२२ ) ।

[ख] तद्घटितवाक्यघटकक्रियान्वितः समभिव्याहृतपदोपस्थाप्यः । यथा

चैत्रः स्वपुत्रं पश्यति इत्यादौ स्वपदार्थश्चैत्रः । तद्घटितेयत्र तच्छन्देन

स्वपदं ग्राह्यम् । क्रियान्वित इत्यन्तेन चैत्रस्य भ्राता स्वपुत्रं पश्यति

इत्यादौ स्वशब्देन न चैत्रप्रतीतिः । २ व्यवहारज्ञास्तु स्वकीयम् धनादि

इत्याहुः । ३ आत्मा । ४ ज्ञातिः ।
 
-
 

 
<
स्वयमुक्तिः>
स्वयमुक्तिरनिर्दिष्टः स्वयमेवैत्य यो वदेत् । सूचीत्युक्तः स

शास्त्रेषु न स साक्षित्वमर्हति ॥ ( मिताक्षरा अ० २ श्लो० ६९ ) ।

 
<
स्वरः>
१ उदात्तानुदात्तस्वरितरूपो वर्णोच्चारणयत विशेषः । २ व्यञ्जन -

वर्णभिन्ना अकारादयो वर्णाः इति शाब्दिका आहुः । एषामचामु-

दात्तादिस्वरवत्त्वात् स्वरपदाभिषेयता । अत्र शिक्षा उदात्तश्चानुदात्तश्च

स्वरितश्च स्वरास्त्रयः । हस्खो दीर्घः द्रुत इति काळतो नियमा अचि ॥