2023-12-26 07:53:44 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

१०५४
 
न्यायकोशः ।
 
यदा कर्मसु काम्येषु स्त्रिय ९ स्वप्नेभिपश्यति । समृद्धिं तत्र जानीयात्तस्मि-

न्स्वप्ननिदर्शने ( छान्दो० ५।२।९ ) इति । तथा पुरुषं कृष्णं कृष्णदन्तं

पश्यति स एनं हन्ति इति । आचक्षते च स्वप्नाध्यायविदः कुञ्जरा-

रोहणादीनि स्वप्ने धन्यानि खरयानादीन्यधन्यानि ( शारी० मा० ३।२।४ )

इति । अत्र शुभाशुभसूचकत्वं स्वप्नमेदस्य मत्स्यपुराणादौ (अ० २४२)

सविस्तरमुक्तम् तत्तत्र द्रष्टव्यम् । द्वैतवादिनः श्रीपूर्ण प्रज्ञाचार्यास्तु स्वप्न -

सृष्टपदार्थानां सत्यत्वमेव । तथा हि स्वप्नेपि गजादिदर्शनं यथार्थमेव ।

मानसवासनाजन्यत्वाद्गजादीनाम् । तेषु यद्वाह्यत्वज्ञानं तद्विपर्यय एव

इति प्राहुः (प्र० प० पृ० ५ ) । अयं भावः । ईश्वरोनादिमनोगतांश्च

संस्कारानुपादानीकृत्य स्वेच्छामात्रेण प्रदर्शयति पदार्थान् । अत्र श्रुतिः य

एष सुप्तेषु जागर्ति कामं कामं पुरुषो निर्मिमाणः इति विज्ञेया । न तत्र

रथा न रथयोगाः ( बृह० उ० ६।३।१० ) इत्यादौ तु ईश्वरं विना इति

पूरयित्वा अन्चयो योज्य: ( मध्यभाष्य ० ३ । २।१ - ३ ) इति । पुराणे

चोक्तम् मनोगतांश्च संस्कारान्स्वेच्छया परमेश्वरः । प्रदर्शयति जीवाय स

स्वप्न इति गीयते ॥ यदन्यथात्वजाग्रत्त्वं सा भ्रान्तिस्तत्र तत्कृता ।

अनभिव्यक्तरूपत्वान्नान्यसाधनजं भवेत् ॥ ( मध्वभाष्ये ब्रह्माण्डपु०

३।२। ३ ) इति । अत्र गजादिरूपकार्यस्योपादानं वासना ईश्वरः कर्ता

अदृष्टादिकं निमित्तम् इति द्रष्टव्यम् ( प्र०प० टी० वेदेश० पृ० १४ ) ।
 

 
<
स्वप्नान्तिकम्>
( बुद्धिप्रभेदः अविद्या ) १ तत्कालोत्पन्नानुभवजनित-

संस्कारजन्यं ज्ञानम् । तदर्थस्तु स्वप्नान्तिकं स्वप्नस्यान्ते भवम् । स्वप्ना-

नुभवजसंस्कारजम् इति यावत् । इदं ज्ञानं स्वप्नावस्थाजातानुभवजनित-

संस्कारेण जायते । किंतु स्मृत्यात्मकम् न मानसम् इति विशेष : (वै०

वि० ९ २१८) । तथा च स्वभान्तिकस्वप्नज्ञानयोरेतावान् विशेषः ।

स्वप्नज्ञानं पूर्वानुभवजनितात्संस्कारादुत्पद्यते । स्वप्नान्तिकं तु तत्कालो-

त्पन्नानुभवजनितसंस्कारादेव । तदुक्तं प्रशस्तदेवाचार्यैः अतीतज्ञान-

प्रत्यवेक्षणात् स्मृतिरेव (वै० उ० ९१२१८) इति । अत्र सूत्रम्

स्वप्नान्तिकम् (वै० ९ २१८ ) इति । तदर्थश्च स्वप्नज्ञानं यथात्ममन:-
*