2023-12-26 07:53:24 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

१०५३
 
संयोग विशेषा-
प्रत्यक्षाकारं
 
न्यायकोशः ।
 
तस्यामवस्थायां प्रबन्धेन प्राणापानसंतानप्रवृत्तावात्ममनः

त्स्वापाख्यात् संस्काराञ्चेन्द्रियद्वारेणेवा सत्स्वपि विषयेषु

ज्ञानमुत्पद्यते ( प्रशस्त० गु० पृ० २५ ) । अत्र च मानसं ज्ञानं

ज्ञानलक्षणरूपालौकिकसंनिकर्षाद्भवति स्मरणं च संस्कारात् इति विशेषः

(वै० वि० ९।२।७ ) । तच्च स्वप्नज्ञानं त्रिविधम् ( १ ) किंचित्

संस्कारपाटवात् (२) किंचित् धातूनां वातपित्तश्लेष्मणां दोषात्

( ३ ) किंचित् धर्माधर्मरूपादृष्टविशेषाच्चोत्पद्यते । तत्राद्यं ( १)

यथा कामी क्रुद्धो वा यदा यमर्थमादृतश्चिन्तयन्स्वपिति तदा सैव

चिन्तासंततिः प्रत्यक्षाकारा संजायते ( प्रशस्त ० २ पृ० २५ ) ।

यथा वा पुराणादिश्रवणजनित संस्कारवशाज्जायते कर्णार्जुनीयं युद्धमिदम्

इत्याकारम् । द्वितीयं ( २ ) यथा वातदोषादाकाशगमनवसुन्धरा-

पर्यटनव्याघ्रादिभयपलायनादीनि पश्यति । पित्तोपचयदोषमहिम्ना वहि-

प्रवेशवह्निज्वालालिङ्गनकनकपर्वत विद्युल्लता विस्फुरणदिग्दाहादिकं पश्यति ।

श्लेष्मदोषप्राबल्यात्तु समुद्रसंतरणनदीमज्जनधारासारवर्षणरजतपर्वतादि

पश्यति । तृतीयं ( ३ ) यथा तज्जन्मानुभूतेषु जन्मान्तरानुभूतेषु वा

सिद्धोपप्लुतान्तःकरणस्य यज्ज्ञानमुत्पद्यते तत्र शुभावेदकं धर्मात् गजारो-

हणपर्वतारोहणच्छत्रलाभपाय सभक्षणराजसंदर्शनादिविषयकम् । अध-

र्मात्तु तैलाभ्यञ्जनान्धकूपपतनोष्ट्रारोहणपङ्कमज्जनस्व विवाहदर्शनादि
विषयकं

स्वप्नज्ञानमुत्पद्यते ( बै० उ० ९ । २।७ ) इति । सांख्या मायावादिवेदा-

न्तिनश्च संस्कारमात्रजन्यः स्वप्नावस्थाशब्दवाच्यो बुद्धेर्विषयाकारः परि-

णामः स्वप्नः इत्याहुः । स्वप्नस्थपदार्थविषये सत्यत्वमिथ्यात्वाभ्यां विप्रति-

पत्तिः । तत्र स्वप्नदृष्टपदार्थस्य मिथ्यात्वम् इति मायावादिवेदान्तिनोङ्गीचक्रुः ।

श्रुतिश्च स यत्र प्रस्वपिति इत्युपक्रम्य न तत्र रथा न रथयोगा न पन्थानो

भवन्ति अथ रथान्रथयोगान् पथः सृजते ( बृह० उप० ६/३/९ - १० )

इति । सूत्रं च मायामात्रं तु कार्येनानभिव्यक्तस्वरूपत्वात् (ब्रह्मसू०

अ० ३ पा० २ सू० ३ ) इति । तथा सूचकच हि श्रुतेराचक्षते च

तद्विदः ( ब्रह्मसू० अ० ३ पा० २ सू० ४ ) इति । सूचकश्च
 

 

हि स्वप्नो भवति भविष्यतोः साध्वसाधुनोः । तथा हि श्रूयते