This page has not been fully proofread.

१०५२
 
न्यायकोशः ।
 
तत् इति स्थाने इदम् इत्युदयात् । सर्वं ज्ञानं निराकारमेव न तु ज्ञानं
तत्तद्विषयाकारम् । साकारज्ञानवादनिराकरणात् ( त० भा० प्रमेय - नि०
पृ० ४० ) । तथा स्वप्नः (वै० ९ । २।७ ) इति सूत्रे चेत्यमुक्तम् । स्मृतौ
यथा संस्कारः कारणं तथा स्वप्नसंज्ञकमानसज्ञानेपि इत्याह तथा इति ।
तथा आत्ममनःसंयोगविशेषात् पूर्वानुभवजनित संस्काराच्च स्वप्नो मान-
सज्ञानविशेषो भवतीति । अत्र संयोगे विशेषो मेध्यामनः संयोगात्मकदोष-
विशिष्टत्वम् । अत एव तदानीं भ्रम एव भवति । पूर्वानुभवश्चैहिको
जन्मान्तरीयो वा (वै० वि० ९२ । २/७५० ४०९ ) । अत्रेदं बोध्यम् ।
स्वप्नज्ञानं पुरीतद्वहिर्देशयोः संधौ मनसि स्थिते अदृष्टविशेषेण चिन्ता-
विशेषेण धातुदोषेण वा जन्यते । तच्च मानसविपर्ययेन्तर्भवति (सि०
च० गु० पृ० ३४ ) ( त० दी० गु० पृ० २८ ) । स्वप्नज्ञानमनुभूत-
पदार्थस्मरणसंस्कारकफपित्तादिधातुशुभाशुभादृष्टैर्जन्यते । तच्च बाधि-
तार्थविषयकम् ( नील० गु० पृ० ३८) इत्यन्यत्रोक्तम् । तत्र स्वप्नज्ञाने
असमवायिकारणं स्वप्नः । धात्वदृष्टादिकं निमित्तकारणम् । आत्मा सम
वायिकारणम् इति ज्ञेयम् । स्वप्नस्य स्मृतिरूपत्वमुक्तं प्रशस्तदेवाचार्यैः
अतीतज्ञानप्रत्यवेक्षणात्स्मृतिरेव इति । उक्तं च वृत्तिकारैः । अनुभूत-
वस्तुस्फुरणार्थतया न स्मरणादर्थान्तरं स्वभज्ञानम् ( वै० उ०
९१२१८ पृ० ४११ ) इति । तेन यत्तु नीलकण्ठ्यां स्मृतिरूपत्वं स्वप्न-
ज्ञानस्य खण्डितम् तद्भाष्यादितात्पर्यानाकलना देव इति मम भाति । [ख]
निद्रादुष्टान्तःकरणजं ज्ञानम् । [ग] मानसविपर्यय: ( त० दी० गु०
पृ० ३८ ) ( सि० च० ) । [घ ] मिथ्याप्रत्ययप्रवाहः ( म्या० ली०
गु० पृ० ३१ ) । [ङ ] सिद्धाभिभूतज्ञानम् ( न्या० ली० गु०
पृ० ५९ ) । [च ] उपरतेन्द्रियग्रामस्य प्रलीनमनस्कस्येन्द्रियद्वारेण
यदनुभवनं मानसं तत् । स्वप्नज्ञानमित्थमुत्पद्यते । यदा बुद्धिपूर्वादात्मन:-
शरीरारब्धव्यापारादहनि खिन्नानां प्राणिनां निशि विश्रान्त्यर्थमाहार-
परिणामार्थ वा अदृष्टकारितप्रयत्नापेक्षात्मान्तःकरणसंबन्धजन्यक्रिया-
प्रबन्धादतीतमन्तर्हृदये निरिन्द्रियात्मप्रदेशे निश्चलं मनस्तिष्ठति तदा
प्रलीनमनस्क इत्याख्यायते । प्रलीने च तस्मिन्नुपरतेन्द्रियग्रामो भवति ।