2023-12-26 07:52:48 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
१०५१
 
परधर्मो भयावहः ॥ ( गीता अ० ३ श्लो० ३५) इत्यादौ स्वधर्म-

शब्दस्यार्थ इत्याहुः । तदुक्तम् यो यस्य विहितो धर्मः स तज्ज़ातेः

प्रकीर्तितः । तस्मात्स्वधर्म कुर्याच्च द्विजो नित्यमनापदि ॥ ( वाचस्पत्ये

नरसिंहपुराणम् ) इति ।
 
स्वधा -

 
<स्वधा>
१ [क] पित्रुद्देश्यकत्यागः । यथा पितृभ्यः स्वधेत्यादौ स्वधा-

शब्दस्यार्थः । वेदादेशितोच्चारणकर्तृत्वोपलक्षितपुरुषीयत्यागः इति

फलितोर्थ: ( ग० व्यु० का० ४ पृ० १०० ) । अत्र निपात-

स्वधायोगे त्यागोद्देश्यवाचकपदात् नमः स्वस्तिस्वाहास्वधालंवषड्योगाच्च

( पाणि० २/३ । १६ ) इत्यनेन सूत्रेण चतुर्थी । [ख] पितृदेवोदेशेन

हविषस्त्यागः । यथा इदमन्नं पित्रे स्वधा इत्यादौ स्वधाशब्दार्थः । अत्र

खधाशब्दार्थत्यागस्य विषयतयान्नादावन्वयः । तस्य स्वधा शब्दस्य

निपातत्वेन तदर्थस्य भेदेनान्वयस्य व्युत्पत्तिसिद्धत्वात् । तथा च

पित्रुद्देश्यकत्यागविषय इदमन्नम् इति बोधः । [ग] स्वस्वकरणको

हविस्त्यागः । यथा इदं पित्रे स्वधा इत्यादौ स्वधाशब्दस्यार्थः । अत्र

पित्रुद्देश्यकस्य स्वधापदकरणकस्य हविस्त्यागस्य कर्मेदम् इत्याकारको

बोध: ( श० प्र० श्लो०.९४ टी० पृ० १२६ ) । २ पौराणिकाः

कर्मज्ञाश्च मातृकाविशेषः । यथा नमः स्वधायै स्वाहायै (पितृगाथा )

इत्यादौ स्वधाशब्दस्यार्थ इत्याहुः । इयं च दक्षकन्या । ब्रह्मणो मानसी

कन्या च पितृपत्नी । अत्राधिकं तु ब्रह्मवैवर्ते द्रष्टव्यम् ।
 

 
<
स्वप्नः>
प्रदेश विशेषावस्थितमनः संयोगः ( नील० गु० पृ० ३८ )

मेध्यामनः संयोगो वा । यथा न कंचन स्वप्नं पश्यति ( बृह० उ०

४ । ३ । १९ ) इत्यादौ स्वप्नशब्दार्थः । यथा वा स्वप्नज्ञानं मानसविपर्ययः

इत्यादौ ग्रन्थे स्वमशब्दार्थः । अत्र प्रदेशविशेषस्तु पुरीतद्व हिर्देशयोः

संधिः । निरिन्द्रियात्मप्रदेशो वा चिन्त्यः ।
 
O
 

 
<
स्वप्नज्ञानम्
>
( बुद्धिप्रभेदः अविद्या ) [ क ] जाग्रदवस्थायां बाह्यवस्त्वनु -

भवजन्यमयथार्थ स्मरणम् । तच्च निराकारमेव ( त० मा० प्रमेय नि

पृ० ४० )। खप्ने च सर्वमेव ज्ञानं सरणम् अयथार्थम् । दोषवशेन