This page has not been fully proofread.

न्यायकोशः ।
 
जीमूतवाहनप्रभृतयः आहुः । तत्रापि समुदायद्रव्ये स्वत्वम् इति मिता-
क्षराकृदादय आहुः । प्रदेशभेदे इति वङ्गदेशीया आहुः ( वीर-
मित्रो० अ० २ पृ० ५२१-५५० ) । अत्राधिकं च वीरमित्रो-
दयजीमूतवाहनादौ दृश्यम् । [ ख ] द्रव्याणां यथेष्टक्रयविक्रयादि-
क्रियासु विनियोजको धर्मविशेषः । स चातिरिक्त पदार्थः न तु यथेष्ट-
विनियोगयोग्यत्वरूपः इति नव्याः दीधितिकारादयः आहुः ( का०
व्या० पृ० ६ ) । तदर्थश्च दानादिनाश्यः प्रतिग्रहजन्यः सप्तपदार्था-
तिरिक्तः कश्चनानिर्वाच्य पदार्थ: ( ल० म० ) इति । तत्रायमाशयः ।
प्रतिग्रहादिनाशोत्तरमपि स्वत्वव्यवहारात् दानादितः स्वत्वं नश्यति प्रति-
ग्रहादितश्च स्वत्वमुत्पद्यते । अत एव निबन्धादौ भाविन्यपि स्वत्वम् ।
अन्यथा प्रतिमासं प्रतिवर्षे वा देयत्वेन प्रतिश्रुतस्य धान्यादिरूपस्य
भावित्वेन तत्र स्वत्थोत्पत्यनुपपत्तेः ( लीलावतीरहस्ये चूडामणिः )
( श्रीकृष्णतर्कालिंकारः ) । अतस्तादृशप्रत्ययव्यवहारप्रामाण्यानुरोधेन
स्वत्वमतिरिक्तः पदार्थः । तच्च स्वत्वं दानादितो नश्यति प्रतिग्रहा-
दितश्च जायते । तच्च बहिरिन्द्रिययोग्यम् । स्वं पश्यामि इति प्रतीतेः ।
वस्तुतः स्वत्वस्यानुमितिरेव न तु साक्षात्कारः ( का० व्या० पृ० ६ )
(नील ० ) इति । अत्रेदं बोध्यम् । सप्त वित्तागमा धर्म्या दायो लाभः ऋयो
जयः । प्रयोगः कर्मयोगश्च सत्प्रतिग्रह एव च ॥ ( मनु० १० ११५)
इति । स्वत्वोत्पत्तौ साधारणोपायास्तु गौतमेनोक्ता: खामी रिक्थक्रय-
संविभागपरिग्रहाधिगमेषु इति । असाधारणोपायास्तु ब्राह्मणस्याधिकं
लब्धम् क्षत्रियस्य विजितम् निर्विष्टं वैश्यशूद्रयोः ( मिता० अ० २
दायभा० ) इति । केचित्तु जीमूतवाहनादयः प्रतिग्रहो न स्वत्वजनकः ।
अपि तु यथेष्टविनियोगार्हताप्रयोजकः । तथा च उत्पन्नमपि स्वत्वं
संप्रदानव्यापारेण ममेदम् इति ज्ञानेन ( स्वीकारेण ) यथेष्टव्यवहारा है
क्रियते इत्याहुः (वीरमित्रो० अ० २ पृ० ५४२ ) ।
स्वधर्मः - १ यत्किंचिद्व्यक्तिवृत्तिपदार्थमात्रम् । यथा घटवृत्तिर्धर्मो घटत्वादिः
२ धर्मज्ञास्तु खानुरूपो वेदायुक्तः अविगीतः आचारादिधर्मः । यथा
श्रेयान् स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् । स्वधर्मे निधनं श्रेयः
 
F
 

 
Han
 
१०५०
 
-