2023-12-26 07:51:50 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
१०४९
 
स्वतन्त्रत्वम् -
<स्वतन्त्रत्वम्>
१ इतरसत्तानधीनसत्ताकत्वम् । यथा परमेश्वरस्य राज्ञश्च वा

स्वातन्त्र्यम् । इतरसत्तेत्यस्यार्थस्तु इतरव्यापारानधीनव्यापारवत्त्वम् ।

स्वरूप प्रमितिप्रवृत्तिलक्षणे सत्तात्रैविध्ये परानपेक्षत्वम् इति मध्वमतानुयायि

वेदान्तिन आहुः ( प्र० च० परि० २ पृ० ४७ ) । २ समभिव्याहृत-

क्रियाकार कान्तरानधीनत्वे सति कारकत्वम् ( ग० व्यु० कार० ३) ।

यथा चैत्रस्तण्डुलं पचति इत्यादौ चैत्रस्य स्वातध्यम् । इदं च स्वतन्त्रः

कर्ता (पाणि० १९९४/५४ ) इति सूत्रे कर्तुः स्वातन्त्र्यम् । तच्च समभि-

व्याहृत क्रियाकारकान्तरानधीन व्यापारवत्त्वम् इति । ३ कचित् शब्दा-

प्रयोज्यत्वं स्वतन्त्रत्वम् इति केचिदाहुः ( मू० म० १ ) ।
 
-
 

 
<
स्वतो ग्राह्यत्वम्>
स्वग्राहकसामग्र्या ग्राह्यत्वम् । यथा मीमांसकमते ज्ञान-

प्रामाण्यं स्वतोग्राह्यं भवति । ज्ञानग्राहकसामग्र्या ग्राह्यं भवति । तन्न

इति नैयायिकमतम् । अत्राधिकं तु प्रमात्वशब्दव्याख्याने सविस्तरं

संपादितम् इत्यत्रैव विरम्यते ।
 
स्वतो व्यावृत्तत्वम् ऽ
स्वतो व्यावर्तकत्वम् ( - विशेषशब्दे अनयोः प्रपञ्चः संपादितः स
स्वतो व्यावृत्तत्वम् ऽ
 

तत्र ( पृ० ७८६ ) दृश्यः ।
 
स्वत्वम् –

 
<स्वत्वम्>
[क] यथेष्टविनियोगयोग्यत्वम् इति प्राञ्च आहुः ( का०

व्या० पृ० ६ ) ( त० दी० ) । यथा चैत्रस्य धनम् इत्यादौ धने

चैत्रनिरूपितं स्वत्वम् । तत्रायमर्थः । यथेष्टविनियोगयोग्यत्वं शास्त्रा-

निषिद्धविनियोगोपायः क्रयप्रतिग्रहादिस्तद्विषयत्वम् । तच्च न बहिरिन्द्रिय-

वेद्यम् । प्रतिग्रहादेर्मानसज्ञान विशेषरूपस्य बहिरिन्द्रियायोग्यत्वात् ( का ०

व्या० पृ० ६ ) इति । अत्र विप्रतिपत्तिः स्वत्वं लौकिकम् अलौकिकं

वा इति । तत्र स्वत्वमलौकिकम् शास्त्रैकसमधिगम्यम् इति पूर्वपक्षः

जीमूतवाहनादीनाम् । तच्च लौकिकमेव लोकप्रसिद्धमेव इति सिद्धान्तः

विज्ञानेश्वर मित्रमिश्रादीनाम् इति मिताक्षरावीरमित्रोदयादौ सिद्धान्तितम् ।

तच्च स्वत्वं जन्मनैवोत्पद्यत इति मिताक्षराकारादयः विज्ञानेश्वरप्रभृतयः

आहुः । तच्च विभागेन पित्रादिमरणादिनैव वोत्पद्यत इति वङ्गदेशीयाः
 

१३२ न्या० को०
 
-