2023-12-26 07:50:56 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

१०४८
 
न्यायकोशः ।
 
द्विधेः । सप्तभङ्गिनयापेक्षो हेयादेय विशेषकृत् ॥ ( सर्व० सं० पृ० ८४

आई० ० ) । सप्तभङ्गीनयस्तु ( १ ) स्यादस्ति ( २ ) स्यान्नास्ति ( ३ )

स्यादस्ति च नास्ति च ( ४ ) स्यादवक्तव्यः (५) स्यादस्ति चावक्तव्यः

(६) स्यान्नास्ति चावक्तव्यः (७) स्यादस्ति च नास्ति चावक्तव्यः

1- इति । अत्र स्याच्छब्दः खल्वयं निपातस्तिङन्तप्रतिरूपकोनेकान्तद्योतकः

( सर्व० सं० पृ० ८४ आई० ) । स्यात् इत्यव्ययम् तिङन्तप्रति -

रूपकम् कथंचिदर्थकम् । स्यादस्ति कथंचिदस्ति इत्यर्थः । एवमग्रेपि

( शारी० मा० टी० २१ २ । ३३ पृ० ३४ ) । यथा घटः स्वस्वरूपे-

णास्ति पटस्वरूपेण नास्ति इत्यादि । एवम् एकत्व नित्यत्वादिष्वपीममेव

• सप्तभङ्गीनयं योजयन्ति ( शारीर० भा० २ २ । ३३ ) । अयं भावः ।

घटादेहि सर्वात्मना सदेकरूपत्वे प्राध्यात्मनाप्यस्त्येव सः इति तत्प्राप्तये

यत्नो न स्यात् । अतो घटस्वादिरूपेण कथंचिदस्ति प्राप्तत्वादिरूपेण

कथंचिन्नास्ति इत्येवमनेकरूपत्वं वस्तुमात्रस्यास्थेयम् ( शा० मा० टी०

र० प्र० २ । २ । ३३ ) इति । एवम् एकत्वमनेकत्वं चेति द्वयमादाय

(१) स्यादेकः (२) स्यादनेकः ( ३ ) स्यादेकोनेकश्च ( ४ ) स्याद-

वक्तव्यः (५) स्यादेकोवक्तव्यः (६) स्यादनेकोवक्तव्यः (७) स्यादे-

कोनेकश्चावक्तव्यश्च इति । तथा स्यान्नित्यः स्यादनित्यः इत्याद्यूह्यम्

( शारी० मा० टी० रत्नप्र० २।२।३३ ) ।
 
-
 

 
<
स्वगतम्>
१ स्वस्मिन्विद्यमानम् । यथा पटश्च स्वगतरूपादेः समवायि

कारणम् ( त० सं० ) इत्यादौ ग्रन्थे स्वगतशब्दस्यार्थः । यथा वा

वेदान्तिमते एकमेवाद्वितीयम् ब्रह्म ( छा० उ० ६ । २ । १ ) इत्यादिश्रुतौ

एकमेव इतिशब्दार्थस्वगतभेदाभेद निवृत्तिघटकस्वगतशब्दार्थः । २ नाटक-

शास्त्रज्ञास्तु अश्राव्यं वाक्यं स्वगतम् इत्याहुः ।
 

 
<
स्वतः प्रामाण्यम्>
विज्ञानसामग्रीजन्यस्त्रे सति तदतिरिक्त

हेत्वजन्यत्वं प्रमायाः
-
स्व
तस्त्वम् ( सर्व० सं० पृ० २८३ जैमि० ) ।
 

 

 
<
स्वतन्त्रः>
स्वतन्त्रो भगवान्विष्णुर्निर्दोषोशेषसद्गुणः ( सर्व० सं० पृ० १२८
• ।

पूर्णप्र० ) ।