2023-12-26 07:50:16 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोश: ।
 
१०४७
 
न्तरत्वमिष्टमेव इति। २ योगशास्त्रज्ञास्तु अनुभवप्राप्तिपूर्वा वृत्तिः इत्याहुः ।

अत्र सूत्रम् अनुभूतविषयासंप्रमोषः स्मृतिः (पात ० पा० १ सू० ११)।

सर्वाः स्मृतयः प्रमाणविपर्ययविकल्पनिद्रास्मृतीनामनुभवात् प्रभवन्ति

(भोजवृत्ति० ) ( भा० ) । २ धर्मज्ञास्तु धर्मशास्त्रम् । अत्रार्थे स्मृति-

शब्दस्य व्युत्पत्तिः स्मर्यते वेदधर्मोनेन ( करणे तिन्) इति । तच्च

वेदार्थानुभवजन्यं वेदार्थानुवादकं धर्मे च प्रमाणं मुनिप्रणीतं वाक्यरूपम् ।

यथा मनुस्मृतियाज्ञवल्क्यस्मृत्यादिरित्याहुः । तदुक्तं मनुना वेदोखिलो

धर्ममूलं स्मृतिशीले च तद्विदाम् ( मनु० अ० २ श्लो० ६) (गौ०

१ । १ ) इति । अत्रोक्तम् श्रुतिस्तु वेदो विज्ञेयो धर्मशास्त्रं तु वै स्मृतिः

( मनु० अ० २ श्लो० १० ) इति । इयं स्मृतिरपि सात्त्विकराजस-

तामसभेदेन त्रिविधा । तत्र सात्त्विक्यो यथा वासिष्ठं चैव हारीतं व्यासं

पाराशरं तथा । भारद्वाजं काश्यपं च सात्त्विक्यो मुक्तिदाः शुभाः ॥

( पद्मपु० उत्त० अ० ४३) इति । राजस्यस्तामस्यस्तु तत्रैवान्वेषणीयाः ।

विस्तरभयादत्र न संगृहीताः ।
 

 

 

 
<
स्यन्दनम्>
१ प्रस्रवणम् । तच्च संनिकृष्टदेशस्य द्रवद्रव्यस्य च संयोगानु-

कूलव्यापारः ( वाक्य ० १ पृ० ९ ) । यथा स्यन्दनासमवायिकारणं

द्रवत्वम् इत्यादौ ग्रन्थे स्यन्दनशब्दस्यार्थः । अत्र सूत्रम् द्रवत्वात्

स्यन्दनम् (३० ५२४) इति । तदर्थश्च स्यन्दनं द्रवत्वादसमवायिकार-

णादुत्पद्यते । तथा हि क्षितौ पतितानामपां बिन्दूनां परस्परसंयोगेन मह-

ज्जलमवयवि स्रोतोरूपं यजायते तस्य यत् स्यन्दनं दूरसंसरणं तद्द्रवत्वा-

दसमवायिकारणादुत्पद्यते गुरुत्वान्निमित्तकारणात् अप्सु समवायिकारणेषु

(वै० उ० ५/२/४ ) । २ गमनत्वव्याप्यजातिमत् । यथा भ्रमणं

रेचनं स्यन्दनोर्ध्वज्वलनमेव च ( भा०प० श्लो० ७ ) इत्यादौ स्यन्दन-

शब्दस्यार्थ: । ३ जलम् ४ रथश्च इति काव्यज्ञा आहुः । ५ तिनिश-

वृक्षः ( तिवस ) इति भिषज आहुः ( अमरः २।४।२६) ।
 
-
 

 
<
स्याद्वादः>
( वादः ) यत्र वादे दिगम्बरा: जैनाः सर्वत्र सप्तभङ्गीन-

याख्यं न्यायमवतारयन्ति सः । स्याद्वादः सर्वथैकान्तत्यागात्किवृत्तचि