This page has not been fully proofread.

१०४६
 
न्यायकोशः ।
 

 
पृ० ४९-५० ) इति । अत्र सूत्रम् आत्ममनसोः संयोग विशेषात् ( प्रणि-
धानादिसंनिधानादसमवायिकारणात् ) संस्काराच्च स्मृति: (वै० ९/२/६)
इति । अत्र स्मृतौ संयोगविशेषोसमवायिकारणम् । संस्कारो निमित्त-
कारणम् । आत्मा समवायिकारणम् इति विज्ञेयम् ( वै० उ० ९ । १।६ ) ।
अत्रेदं बोध्यम् ॥ भावनाख्यः संस्कारोनुभवेन जन्यते स्मृतिं जन-
यति च इति । संस्कारस्तूद्ध एव स्मृतिं जनयति । उद्बोधकाच
संस्कारस्य सदृशदर्शनादयः (त० भा० पृ० ३७ ) । तथा चोक्तम् सदृशा-
दृष्टचिन्ताद्याः स्मृतिबीजस्य बोधकाः इति । गौतमसूत्रे ( ३ । २ । ४२ )
च ते प्रदर्शिताः । अत्र कश्चिदाह स्मृतिजननाय संस्कारोद्दीपन-
मुद्बोध: ( वाच० ) इति । अत्र मतभेदः । स्मृति संस्कारं च
प्रति अनुभवस्यानुभवत्वेनैव जनकत्वम् इति प्राचां मतम् । नवीनानां
मते
तु अनुभवस्य ज्ञानत्वेन जनकत्वम् ( नील० गु० पृ० ३८ ) इति ।
प्राचामयमभिप्रायः तत्तद्विषयकस्मृतिं तादृशसंस्कारं च प्रति तत्त-
द्विषयकानुभवत्वेनैव हेतुता । न तु तत्तद्विषयकज्ञानत्वेन । अनुभवत्व-
स्यापि जातित्वेन ज्ञानत्वापेक्षया गौरवाभावात् । न च विनिगमना-
विरहः इति शक्यम् । व्याप्यधर्मपुरस्कारेण कारणत्वसंभवे व्यापक-
धर्मस्यान्यथासिद्धिनिरूपकत्वात् इति । नव्यानां पुनरयमाशयः । तत्त-
द्विषयकस्मृतिं तादृशसंस्कारं च प्रति तत्तद्विषयकज्ञानत्वेनैव हेतुता । न
त्वनुभवत्वेन । संस्कारस्य फलनाश्यतया प्रथमस्मरणेनैवानुभवजन्य-
संस्कारस्य नाशेन सकृदनुभूतस्य स्मरणोत्तरमस्मरणप्रसङ्गात् ( नील०
मु० पृ० ३८-३९ ) इति । स्मृतिर्द्विविधा यथार्था अयथार्था चेति ।
तत्र आद्या प्रमाजन्या । द्वितीया अप्रमाजन्या ( त० सं० ) । जागरे
तदुभयं संभवति । खप्ने तु सर्वमेव ज्ञानं स्मरणम् अयथार्थ च
( त० भा० ) इति । द्वयोर्लक्षणे च संस्कारसंबन्धावच्छिन्नानुभवप्रमाभ्रम-
निष्ठजनकतानिरूपितजन्यते बोध्ये ( वाक्य० गु० पृ० २१ ) । अत्र
वेदान्तिन आहुः स्मृतिरपि ( प्रमाजन्यापि ) प्रमाणमेव ( प्रमा ) ( प्र०
प० पृ० ४ ) इति । अयं भावः स्मृतेः प्रमारूपत्वेन प्रमाकरणत्व-
रूपप्रमाणलक्षणाक्रान्तत्वादनुभवस्यापि प्रत्यक्षादिचतुष्टयस्येव प्रमाणा-