न्यायकोशः /11
This page has not been fully proofread.
तृतीयावृत्तावुपोद्धातः I
मसौ गुरुकुलक्लिष्टो मुरारिः कविः । अब्धिलङ्गित एव वानरभटैः किं त्वस्य
गम्भीरतामापातालनिमग्नपीवरतनुर्जानाति मन्थाचलः" इत्यादिका मुरारिक-
वेर्दर्पोक्तिर्नूनमुक्तेरतिशयं परित्यज्याधुना परिदृश्यमानयथार्थस्वरूपा संजा-
तेति । स्मरामो वयं केवलं तस्य कालस्य यदा गुरोः समीपेधीयानोधस्ताहि-
प्पण्याङ्कितं ग्रन्थमुपयुञ्जानः शिष्यो यथा सर्वेषां सहाध्येतॄणामवमानपात्र -
मासीद्यथा चोपस्थितेरभावे कोशादिग्रन्थानामवलोकनं कुर्वाण: सब्रह्मचारि-
णामुपहासभाजनमजायत । गुरवोपि ते गता व्याकरणादिशास्त्रपारयिष्णवो
येषां भाष्यादिग्रन्थाक्षराणि मनश्चक्षुषः पुरतो हस्तामलकवत्स्फुरन्ति समव-
र्तन्त । बहूनां व्याकरणोपाध्यायानामधुना पाणिनीयाष्टाध्यायी स्थ सूत्राण्यपि
न क्रमेण मुखोद्गतानि समुपलभ्यन्ते दूरत एव कथा वार्तिकानां भाष्य-
पङ्कीनां वा । दैवदुर्विलसितप्रभावेण संजातस्येदानींतनस्य न्यायशास्त्राध्यय-
नहासस्य संसूचिका मेतादृशीमवस्थां प्रत्यक्षीकुर्वन्तो नैयायिकाग्रेसरा भीमा-
चार्या न्यायशास्त्राध्ययनं कुर्वाणानां शिष्याणामध्यापनं च कुर्वतां गुरूणा-
मुपयोगाय न्यायशास्त्रगतानां सांकेतिकानां शब्दानां कोशं न्यायकोशामिधं
व्यरचयन् ॥
४ कोशादयो ग्रन्थाः प्रायशः शास्त्रं प्रविविक्षूणां शास्त्रपारंगतानां गुरु-
चरणानां समीपे पाठं ग्रहीतुमशक्नुवतां बालानामेव बहुश उपयोगार्थ
प्रणीता भवन्ति । एकस्मिशास्त्रे कृतप्रवेशानां स्वातन्त्र्येण गुर्वनपेक्षयेतर-
शास्त्रप्रवेशकर्म कुर्वाणानामपि जनानां यथावकाशमेतेषामुपयोगो भवति ।
कृतविविधशास्त्रालोडनानां स्फुरच्छास्त्रग्रन्थोपस्थितिकतया हर्निशं कृततत्त-
च्छास्त्रगत कठिन विषयविभावनानां बुद्धिवैभवशालिनां प्रतिभासंपन्नानामुपा
ध्यायानां न कोशग्रन्थैः किमपि फलं संपादितं भवति किंतु कोशग्रन्थसां-
निध्यं तस्य मुहुर्मुहुरुपयोगकर्म चैते स्वसंपादितायाः शास्त्रोपस्थितेर्मालि-
न्यमेव संपादयतः । समागते चोपस्थितिमालिन्ये शास्त्रार्थानामहर्निशं मनसि
प्रचलिता चर्वणापि श्लथा भवति । श्लथायां तस्यां स्फुरदपि प्रतिभावैभवं
प्रसरकर्मण्यवकाशाभावादकिंचित्करं भवति । हीयमाने च प्रतिभावैभवे नव-
2 न्या. को.