2023-12-26 07:49:28 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
१०४५
 
<स्फ्यः
 
-
>
खजाकारं काष्ठम् (जै० न्या० अ० ३ पा० १ अधि० ६ ) ।

 
<
स्मयः - >
१ ( दोषः ) गुणवति निर्गुणत्वधीः ( गौ० वृ० ४ । १ । ३ ) ।

२ अद्भुतरसस्थायिभावः इत्यालंकारिका आहुः । ३ गर्वः इति काव्यज्ञा

आहुः । ४ कातर्यम् इति नाटकज्ञा आहुः । गायकः इति गान-

शास्त्रज्ञा आहुः ।
 
-
 

 
<
स्मरणम्>
१ स्मृतिः । २ अर्थालंकार विशेष: इत्यालंकारिका आहुः ।

तदुक्तम् सदृशानुभवाद्वस्तुस्मृतिः स्मरणमुच्यते ( सा० ६० परि० १०

श्लो० २७ ) इति । ३ चिन्तनम् इति काव्यज्ञा वदन्ति ।

 
<
स्मार्तः>
१ स्मृतिशास्त्राभिज्ञः । २ स्मृतिविहितं कर्म । यथा स्मार्ते

वैदिकवच्चरेत् अन्योपि स्मार्तमाचरेत् इत्यादौ गृह्याभ्युपासनवैश्वदेव-

दानादि स्मार्तं भवति ।
 
A
 

 
<
स्मृतिः>
१ ( बुद्धिः ) संस्कारमात्रजन्यं ज्ञानम् ( त० सं० ) । प्रत्यक्षबुद्धि-

निरोधे तदनुसंधानविषय: स्मृति: ( न्या० वा० ) इति वार्तिके उक्तम् ।

यथा मातुः स्मरति इत्यादौ स्मृधात्वर्थः । संस्कारमात्रजन्यम् इत्यस्य

चक्षुराद्यजन्यत्वे सति संस्कारजन्यम् इत्यर्थः । मात्रपदोपादानेन प्रत्य-

भिज्ञायां नातिव्याप्तिः । प्रत्यभिज्ञायाश्चक्षुर्जन्यत्वात् ( नील० १ पृ०

१४ ) इति । अत्र प्राञ्चो नैयायिकाः स्मृतिलक्षणे न मात्रपदमावश्यकम् ।

न च सोयं देवदत्तः इति प्रत्यभिज्ञायामतिव्याप्तिः इति वाच्यम् । तत्र

संस्कारजनिततत्तास्मृतिरेव हेतुः । न तु संस्कारोपि इत्यतिव्याप्तिविरहात्

इत्याहु: ( त० कौ० १ पृ० ६) । मध्वाचार्यानुयायिनस्तु स्मृतिः

मनोजन्या न तु संस्कारजन्या । संस्कारस्तु मनसस्तदर्थसंनिकर्षरूप एव ।

यथा योगीन्द्रियाणां योगजो धर्म इत्याहुः ( प्र०प० पृ० ९ ) ।

स्मृतिश्च वैशेषिकनये बुद्ध्यन्तर्गत विद्याप्रभेदः ( प्रशस्त० पृ० २५ ) ।

लिङ्गदर्शनेच्छानुस्मरणाद्यपेक्षादात्ममनसोः संयोगविशेषात् पट्टभ्यासादर-

प्रत्ययजनिताच संस्कारात् दृष्टश्रुतानुभूतेष्वर्थेषु विशेषानुस्मरणेच्छा-

द्वेषहेतुः तदतीतविषया स्मृतिः ( प्रशस्त ० २ पृ० ३२) इति ।

अत्र पाठान्तरम् विशेषानुव्यवसायेच्छानुस्मरणद्वेषहेतुः ( प्रशस्त ० २
 
रं.