न्यायकोशः /1099
This page has not been fully proofread.
न्यायकोशः ।
१०४५
स्फ्यः
- खजाकारं काष्ठम् (जै० न्या० अ० ३ पा० १ अधि० ६ ) ।
स्मयः - १ ( दोषः ) गुणवति निर्गुणत्वधीः ( गौ० वृ० ४ । १ । ३ ) ।
२ अद्भुतरसस्थायिभावः इत्यालंकारिका आहुः । ३ गर्वः इति काव्यज्ञा
आहुः । ४ कातर्यम् इति नाटकज्ञा आहुः । गायकः इति गान-
शास्त्रज्ञा आहुः ।
-
स्मरणम् – १ स्मृतिः । २ अर्थालंकार विशेष: इत्यालंकारिका आहुः ।
तदुक्तम् सदृशानुभवाद्वस्तुस्मृतिः स्मरणमुच्यते ( सा० ६० परि० १०
श्लो० २७ ) इति । ३ चिन्तनम् इति काव्यज्ञा वदन्ति ।
स्मार्तः – १ स्मृतिशास्त्राभिज्ञः । २ स्मृतिविहितं कर्म । यथा स्मार्ते
वैदिकवच्चरेत् अन्योपि स्मार्तमाचरेत् इत्यादौ गृह्याभ्युपासनवैश्वदेव-
दानादि स्मार्तं भवति ।
A
स्मृतिः – १ ( बुद्धिः ) संस्कारमात्रजन्यं ज्ञानम् ( त० सं० ) । प्रत्यक्षबुद्धि-
निरोधे तदनुसंधानविषय: स्मृति: ( न्या० वा० ) इति वार्तिके उक्तम् ।
यथा मातुः स्मरति इत्यादौ स्मृधात्वर्थः । संस्कारमात्रजन्यम् इत्यस्य
चक्षुराद्यजन्यत्वे सति संस्कारजन्यम् इत्यर्थः । मात्रपदोपादानेन प्रत्य-
भिज्ञायां नातिव्याप्तिः । प्रत्यभिज्ञायाश्चक्षुर्जन्यत्वात् ( नील० १ पृ०
१४ ) इति । अत्र प्राञ्चो नैयायिकाः स्मृतिलक्षणे न मात्रपदमावश्यकम् ।
न च सोयं देवदत्तः इति प्रत्यभिज्ञायामतिव्याप्तिः इति वाच्यम् । तत्र
संस्कारजनिततत्तास्मृतिरेव हेतुः । न तु संस्कारोपि इत्यतिव्याप्तिविरहात्
इत्याहु: ( त० कौ० १ पृ० ६) । मध्वाचार्यानुयायिनस्तु स्मृतिः
मनोजन्या न तु संस्कारजन्या । संस्कारस्तु मनसस्तदर्थसंनिकर्षरूप एव ।
यथा योगीन्द्रियाणां योगजो धर्म इत्याहुः ( प्र०प० पृ० ९ ) ।
स्मृतिश्च वैशेषिकनये बुद्ध्यन्तर्गत विद्याप्रभेदः ( प्रशस्त० पृ० २५ ) ।
लिङ्गदर्शनेच्छानुस्मरणाद्यपेक्षादात्ममनसोः संयोगविशेषात् पट्टभ्यासादर-
प्रत्ययजनिताच संस्कारात् दृष्टश्रुतानुभूतेष्वर्थेषु विशेषानुस्मरणेच्छा-
द्वेषहेतुः तदतीतविषया स्मृतिः ( प्रशस्त ० २ पृ० ३२) इति ।
अत्र पाठान्तरम् विशेषानुव्यवसायेच्छानुस्मरणद्वेषहेतुः ( प्रशस्त ० २
रं.