2023-12-26 07:46:13 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
.
 
समुदीयमानस्य स्फोटरूपस्यैव नित्यतया तत्रैव नित्यसंबन्धस्य योग्यतया

वृत्तिमत्त्वमुचितम् इति । तथा च योगसूत्रभाष्यकृयास आह तदेतेषा-

मर्थसंकेतेनावच्छिन्नानामुपसंहृतध्वनिक्रमाणां य एको बुद्धिनिर्भासस्तत्पदं

वाचकं वाच्यस्य संकेत्यते तदेकं पदमेकबुद्धिविषय एकप्रयत्ना

क्षिप्तमभागमक्रमवर्ण बौद्धमन्त्यवर्णप्रत्ययोपस्थापितं प्रतीयते इति ।

स्फोटश्च पूर्वपूर्ववर्णानुभवसहितचरमवर्णानुभवव्यङ्ग्यः । अत्र स्फोट-

स्याभिव्यक्तौ प्राकृतो ध्वनिः कारणम् । चिरचिरतरस्थितौ तु प्राकृ-

तध्वनिजातवैकृतध्वनिः कारणम् इति विवेको ज्ञेयः ( ल० म० १ ) ।

स च शाब्दिकमतप्रसिद्धः । अत्र महाभाष्यम् अथ गौरित्यत्र कः शब्दः ।

येनोच्चारितेन सास्नाळामूलककुदखुरविषाणानां संप्रत्ययो भवति स शब्द

उच्यते इति । तथा च भागवते (१२/६/४० ) स्फोटश्रवणस्यात्मलिङ्गत्व-

मुक्तम् शृणोति य इमं स्फोटं सुप्ते श्रोत्रे च शून्यदृक् । येन वाग्व्यज्यते

यस्य व्यक्तिराकाश आत्मनः ॥ ( मञ्जूषायाम् ) इति । नैयायिकमते तु

स्फोटो नाङ्गीक्रियत एव । यद्यङ्गीक्रियेत तदापि वर्णवत्सोनित्य एव इति

मन्तव्यम् । अयं भावः । पूर्वपूर्ववर्णगोचरसंस्कारसहितश्चरमवर्णोपलम्भ एव

स्फोटव्यञ्जकः इति शाब्दिकैः स्वीकरणीयम् । तथा च नैयायिकमतेपिता-

दृशचरमवर्णोपलम्भेनैवार्थप्रत्ययोपपत्तावलं स्फोटाङ्गीकारेण (न्या० म० ४

पृ० ३२) (त० प्र० ४ पृ० १२७) इति । अथ स्फोटभेदा उच्यन्ते ।

अष्टौ स्फोटा भवन्ति (१) वर्णस्फोट: (२) पदस्फोटः (३) वाक्यस्फोटः

(४) अखण्डपदस्फोटः (५) अखण्डवाक्यस्फोट: (६) वर्णजातिस्फोट:

1(७) पदजातिस्फोट: (८) वाक्यजातिस्फोटश्च इति । तत्र वाक्यस्फोट एव

वास्तवः अन्येषां त्ववास्तवत्वम् इति वैयाकरणानां सिद्धान्तः ( वै० सा०

पृ० ५९ ) । अत्र वर्णस्फोटमारभ्याखण्डवाक्यस्फोटपर्यन्तं पञ्च व्यक्ति-

स्फोटा भवन्ति । शिष्टास्तु त्रयो जातिस्फोटा भवन्ति इति बोध्यम् । अत्र

मीमांसका वेदान्तिनश्च प्रत्येकपदशक्तिसाचिव्येनाकाङ्कादिवशात्पदाद्वाक्या-

र्थबोधस्तदा पदस्फोटः । यदा तु तन्निरपेक्षैव सा बोधं जनयति तदा

वाक्यस्फोटः इत्याहुः (वै० सा० द० पृ० ४२५) । पुनश्च स्फोटो द्विविधः

सखण्ड: अखण्डश्च । तत्र पदवाक्ययोरखण्डत्वं चाविद्यमानावयवकत्वम् ।
 
१०४४
 
-