2023-12-26 07:45:36 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
१०४३
 
<स्पार्शनम्>
त्वगिन्द्रियजन्यं प्रत्यक्षम् । यथा द्रव्यस्पार्शनप्रत्यक्षं प्रति स्पर्शः

कारणम् इत्यादौ ग्रन्थे स्पार्शनशब्दस्यार्थः । स्पार्शनं च द्विविधम्

स्पर्शविषयकम् स्पर्शवद्द्रव्यविषयकं चेति ।
 

 
<
स्पृहा>
( दोषः ) धर्माविरोधेन प्राप्तीच्छा ( गौ० वृ० ४ । १ । ३ ) । यथा

पुष्पेभ्यः स्पृहयति इत्यादौ स्पृहधात्वर्थः । यथा वा स्पृहावती वस्तुषु

केषु मागधी ( रघु० ३१५ ) मिथुने स्पृहावती ( कुमार ० ) इत्यादौ

च स्पृहाशब्दार्थः ।
 

 
<
स्फुटत्वम्>
१ तद्विषयक जिज्ञासानधीनप्रतिपत्तिविषयत्वम् । यथा दोष-

लक्षणे कृते दुष्टहेतुलक्षणस्य स्फुटत्वेन लाभः इत्यादौ स्फुटत्वशब्दस्यार्थः

( ग० हेत्वा० सामा० लक्ष० १ ) । २ ज्योतिषज्ञास्तु सूर्यादिग्रहाणां

मेषादिराशिष्वंशविशेषस्थितिः तत्तदंशकलादिगतिश्च इत्याहुः । ३ विका-

शनम् ४ विदलनं च इति काव्यज्ञा आहुः ।
 

 
<
स्फोट:>
वर्णातिरिक्तो वर्णाभिव्यङ्ग्योर्थप्रत्यायको नित्यः शब्दः (सर्व० सं०

पृ० ३०० पाणि०) (तर्कप्र० ख० पृ० १२६) । अत्र व्युत्पत्तिः स्फुट्यते

व्यज्यते वर्णैः इति स्फोटः इति स्फुटत्यर्थोस्मात् इति स्फोटः इति च

यौगिकशब्दाभिधेयत्वं शब्दब्रह्मणः सूचयति (वै० सा० पृ० २१२ ) ।

स्फोटत्वं च स्फुटव्यभिव्यक्तीभवत्यर्थोस्मात् अनेन वा इति व्युत्पत्या अर्थ-

प्रकाशकत्वम् । प्रकाशश्च ज्ञानम् । तथा च अर्थनिष्ठविषयताप्रयोजकश-

क्तिमत्त्वं पर्यवस्यति । वर्णस्यैव तत्त्वाभ्युपगमे वर्णस्फोटः पदादीनां तत्त्वा-

भ्युपगमे तु पदादिस्फोटः इति व्यवहारः ( वै० सा० ८० पृ० २९२ ) ।

स्फोटस्यावश्यकत्वमाह । पदानां वर्णसमूहरूपाणामाशुविना शितयैकक्ष-

णावस्थायित्वाभावादप्रत्यक्षत्वं तावन्निरूढम् । तथा च पदाप्रत्यक्षे

पदार्थस्मृतेः शाब्दबोधहेतोः असंभवः स्यात् । अतः स्फोटः कश्चनाङ्गी-

कर्तव्यः यतोर्थप्रत्ययः इति । अथ वा वर्णानां प्रत्युच्चारणमन्यथा प्रतीय-

मानतया अनित्यत्वेन आशुविनाशिनां च तेषां मेलनासंभवेन तत्समुदा-

यस्यापि संबन्धित्वाभावेन प्रत्येकं वर्णेषु वृत्तौ व्यभिचारेण च पूर्वपूर्व-

बर्णानुभवजन्यसंस्कारबीजवत्यन्त्यवर्णजनितपरिपाकशालिनि हृदये झटत