This page has not been fully proofread.

न्यायकोशः ।
 
१०४१
 
द्रवत्वस्य । तथा सति द्रुतसुवर्णादिसंयोगे चूर्णादेः पिण्डीभावापत्तेः।
हिमकरकादिभिः पिण्डीभावापत्तेश्च । अतः स्नेहस्यैवासाधारणकारणत्वम् ।
वस्तुतस्तु द्रुतजलसंयोगस्यैव पिण्डीभावहेतुत्वम् । स्नेहस्य पिण्डी-
भावहेतुवे मानाभावात् । जले द्रुतत्वविशेषणात्करकादिव्यावृत्तिः
( न्या० बो० १ पृ० ६ ) । अत्र प्रसङ्गतः स्नेहनविधिरुच्यते ।
स्नेहश्चतुर्विधः प्रोक्तो घृतं तैलं वसा तथा । मज्जा च तां पिबेन्मर्त्यः
किंचिदम्युदिते रवौ ॥ स्थावरो जङ्गमश्चैव द्वियोनिः स्नेह उच्यते ।
तिलतैलं स्थावरेषु जङ्गमेषु घृतं वरम् ॥ द्वाभ्यां त्रिभिश्चतुर्भिर्वा यमकस्त्रि-
वृतो महान् ॥ ( भावप्र० ) इति । अत्रोद्भटः अपेक्षन्ते न च स्नेहं न
पात्रं न दशान्तरम् । परोपकारनिरता मणिदीपा इवोत्तमाः ॥ इति ।
२ प्रेम इत्यालंकारिका वदन्ति । प्रेमरूपस्नेहश्च वत्सलरसस्य स्थायि-
भावः । स च रसो भरतसंमतः । तदुक्तम् स्फुटं चमत्कारितया वत्सलं
च रसं विदुः । स्थायी वत्सलता स्नेहः पुत्राद्यालम्बनं मतम् ॥
( सा० द० परि० ३ श्लो० २५१ ) इति ।
 

 
-
 
स्पन्दनम् – वाय्वभिभूतस्येव शरीरावयवानां कम्पनम् ( सर्व० सं० पृ०
१७० नकु० ) ।
 
स्पर्धा – पराभिभवेच्छा । यथा स्पर्धते इत्यादौ ।
 
( वै०
 
स्पर्श: – १ ( गुणः ) [ क ] त्वगिन्द्रियमात्रग्रहणो योर्थः स स्पर्शः
१० उ० ३।१।१ ) ( प्रश० पृ० १२) । स तु बाह्यैकेन्द्रिय-
ग्राह्यः पृथिवीजलतेजोवायुवृत्तिः । अत्र विवेकः कठिनसुकुमारस्पर्शो
पृथिव्या एव (भा०प० ) इति । तत्र वायुगतस्पर्शस्तु बहुविधः ।
तथा चोक्तम् वायव्यश्च गुणः स्पर्श: स्पर्शश्च बहुधा स्मृतः । उष्णः
शीतः सुखो दुःखः स्निग्धो विशद एव च ॥ तथा खरो मृदू रूक्षो
लघुर्गुरुतरोपि च ॥ ( भार० शा० अ० १८१ ) इति । कठिनस्या-
प्युपलक्षणमिदम् । यथोक्तम् वायोश्चापि गुणः स्पर्श: स्पर्शश्च बहुधा
स्मृतः । रूक्षः शीतस्तथैवोष्णः स्निग्धश्च विशदः खरः ॥ कठिन-
श्चिक्कणः श्लक्ष्णः पिच्छलो दारुणो मृदुः । एवं द्वादशविस्तारो वायव्यो
 
१३१ न्या० को●