This page has not been fully proofread.

१०४०
 
न्यायकोशः ।
 
[ ख ] अन्यथाकृतस्य पुनस्तदवस्थापादकः संस्कारः ( त० सं० ) ।
पूर्वसंयोगविजातीयसंयोगनाशकत्वे सति पूर्वसंयोग सजातीयसंयोगजनकः
• इति समुदितार्थः । अत्र क्रियावारणाय सत्यन्तं दलं दत्तम् । विभाग-
वारणाय विशेष्यदलम् ( वाक्य० गु० पृ० २२ ) । [ग] आश्रये
• पूर्वावस्थापादकः संस्कारः । स यथा आकृष्टतरुशाखादेः पूर्वावस्थां
जनयति (प्र० प्र० ) । [ घ ] स्वोत्पत्त्यवस्थापादको गुणः ।
स्नायुः – सूक्ष्मनाडी ।
 
-
 
स्नेहः-
-
 
:– १ (गुणः ) [ क ] स्नेहत्वजातिमान् ( प्र० प्र० ) । स्नेहश्चिकणता
जलमात्रवृत्तिः चणकचूर्णादिव्यङ्ग्यश्च । पयोघृततैलादौ स्नेहोपलम्भस्तु
पयआद्यन्तर्गतजलोपाधिक: जलगत एवोपलभ्यते । स्नेहो जलपरमाणु-
गतो नित्यः जलड्यणुकादिरूपकार्यगतः अनित्यः ( त० कौ० )
( प्र० प्र० ) ( प्रशस्त० २ पृ० ३३ ) ( त० सं० ) ( भा०प० )
( वाक्य० ) । अत्र भाष्यम् स्नेहोपां विशेषगुण: संग्रहमृजादिहेतुः ।
अस्यापि गुरुत्ववन्नित्यानित्यत्वनिष्पत्तयः ( प्रशस्त ० २ गु० पृ० ३३)
इति । मृजा शुद्धिः । अत्र विचार्यते । न च सांसिद्धिकद्रवत्वादेव संग्रह -
संभवे किं स्नेहेन इति वाच्यम् । चणकचूर्णादिना जलद्रवत्वयोरुत्कर्ष-
स्यानाधानादन्यस्य च संग्रहहेतोरभावे तदुत्कर्षस्या कस्मिकत्व प्रसङ्गात् ।
हेतुर्गुण: ( त० सं० ) । यथा प्रदीपः स्नेहमादत्ते दशयाभ्यन्तरस्थया
अतः स्नेह आवश्यकः ( प० च० ) इति । ख ] चूर्णादिपिण्डीभाव-
इत्यादौ तैलसंयुक्तजलगतः स्नेहः । जले स्नेहो द्विविधः प्रकृष्टस्नेहः
अपकृष्टस्नेहश्च । तत्र तैलादौ प्रतीयमानः प्रकृष्टस्नेहो दीपादिज्वालादे-
रनुकूल: । पानीयगतस्तु अप्रकृष्टस्नेहो वह्निं नाशयति (मु० गु०
पृ० २३२ ) । [ग] स्निग्धधीर्यद्विशिष्टार्थे स्नेहश्चिकणता च सः
( ता० र० श्लो० ४८) । अत्रेदं बोध्यम् । सत्यपि द्रवत्वे द्रुतसुवर्णा
दिभिः सत्यपि च स्नेहे हिमकरकादिभिः पिण्डीभावाजननात्
सहितमेव द्रवत्वं पिण्डीभावकारणम् (त० व० पृ० २३० ) इति ।
यद्वा पिण्डीभावे स्नेहस्यैवासाधारणकारणत्वम् । न तु जलादिगत-
स्नेह-