2023-12-26 07:42:29 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
१०३९
 
-
 
<स्थावरः>
पृथिव्यप्तेजोवायुवनस्पतयः स्थावराः (सर्व० सं० पृ० ७०आई० ) ।

 
<
स्थितिः>
१ स्वोत्पत्त्यवस्था । यथा स्थितिस्थापकः इत्यादौ स्थितिशब्दस्यार्थः ।

२ स्वभावः इत्यन्य आहुः । ३ वसतिः इति काव्यज्ञा आहुः । ४ गति-

निवृत्तिः । यथा तिष्ठति इत्यादौ इति शाब्दिका आहुः । ५ वृत्ति-

रहितस्य चित्तस्य स्वरूपनिष्ठः प्रशान्तवाहितारूपः परिणामविशेषः स्थितिः

( सर्व० सं० पृ० ३६६ पात० ) ।

 
<
स्थितिबन्धः>
यथा अजागोमहिष्यादिक्षीराणामेतावन्तमनेहसं माधुर्य -

स्वभावादप्रच्युतिस्थितिः । तथा ज्ञानावरणादीनां मूलप्रकृतीनाम् आदि-

तस्तिसृणामन्तरायस्य च त्रिंशत्सागरोपमकोटिकोट्यः परा स्थितिः इत्याधु-

क्तकाला दुर्धानवत्स्वीयस्वभावादप्रच्युतिस्थितिः ( सर्व० सं० पृ०

७७-७८ आर्ह० ) ।
 

 
<
स्थितिस्थापकः>
(गुणः ) [ क ] क्रियाविशेषजनकः क्रियाविशेषजन्यः

स्वजन्यक्रियानाश्यो गुणविशेष: ( दि० गु० पृ० २३३)। ऋजुत्वा-

द्यापादकः संस्कारप्रभेदोयम् कार्मुककटादिपृथिवीमात्रवृत्तिः अतीन्द्रियः

अनित्यश्चेति ( त० सं० ) । तस्यातीन्द्रियत्वे मानं च आकृष्टतरुशाखा-

दीनां परित्यागे पुनर्गमनं स्थितिस्थापकसाध्यम् इति ( मु० गु० पृ०

२३३ ) । तथा च शरादीनां नमनोत्तरं त्यागे यथास्थाननियतसंयोग-

जनककर्मजनकतया सिद्ध्यति सः ( प० मा० ) । स च आकृष्टतरुशा-

खादौ स्पन्दं प्रति कारणमपि भवति । केचित्तु अयं स्पर्शवद्विशेषवृत्तिः ।

तेन पृथिव्यादिचतुष्टये वर्तते इत्याहुः ( प्र० प्र० ) ( भा०प० श्लो०

१६० ) ( त० कौ० ) ( दि० गु० पू० १९३ ) । तल्लक्षणं च

पृथिवीमात्रसमवेतसमवेतसंस्कारस्वव्याप्यजातिमत्त्वम् ( सि० च० गु०

पृ० ३५ ) । अत्र भाष्यम् । स्थितिस्थापकस्तु स्पर्शवद्रव्येषु वर्तमानो

घनावयवसंनिवेशविशिष्टेषु कालान्तरावस्थायिषु स्वाश्रयमन्यथाकृतं यथा-

वस्थितं स्थापयति । स्थावरजङ्गमेषु विकारेषु धनुःशाखादन्तशृङ्गादिषु

सूत्रचर्म वस्त्र कम्बलादिषु भुग्नसंवर्तितेषु तस्य कार्ये संलक्ष्यते । नित्या-

नित्यत्वनिष्पत्तयोस्यापि गुरुत्ववद्रष्टव्याः (प्रशस्त० गु० पृ० ५३ ) इति ।