2023-12-26 07:41:37 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

१०३८
 
न्यायकोशः ।
 
स्थानम् –
<स्थानम्>
१ ज्ञापकम् (गौ० वृ० ११२ । १९) । यथा निग्रहस्थानम् इत्यादौ

वेदाः स्थानानि विद्यानाम् ( याज्ञ० १ । ३ ) इत्यादौ च स्थानशब्दस्यार्थः ।

२ स्थितिः । सा च क्वचित् स्वाभिप्रायबोधानुकूला स्थितिः । यथा

गोपी कृष्णाय तिष्ठते इत्यादौ तिष्ठतेरर्थः । अत्र कृष्णसंप्रदानक-

बोधानुकूला स्थितिः इति शाब्दिकमते बोध: ( ल० म० का० ४

पृ० १०३ ) । ३ प्रसङ्गः । यथा स्थानेन्तरतमः (पाणि० १/१/५० )

इत्यादौ आदिश्यमानस्य यणादेः कारणीभूतेगादेः प्रसङ्ग स्थानम् इति

शाब्दिका वदन्ति । ४ आश्रयः इति काव्यज्ञाः संगिरन्ते । ५ मीमांस-

कास्तु देशसामान्यम् । लक्षणं च संनिधिविशेषत्वम् ( लौ ० भा० टी०

पृ० २६ ) । स्थानं क्रमश्चेत्यनर्थान्तरम् । अत्रोक्तम् स्थानं क्रमो योग-

बलं समाख्या ( पार्थसारथिः ) इति । यथा ऐन्द्राग्न मेकादशकपालं

निर्वपेत् वैश्वानरं द्वादशकपालं निर्वपेत् इत्येवंक्रमविहितेष्टिषु इन्द्रा

रोचनादिवः वैश्वानरोजीजनत् इत्यादीनां याज्यानुवाक्यामन्त्राणां यथा-

संख्यं प्रथमस्य प्रथमम् द्वितीयस्य द्वितीयम् इत्येवंरूपो विनियोगः यथा-

संख्यपाठात् इत्याहुः । तच्च स्थानं द्विविधम् पाठसमानदेशत्वम् अनुष्ठान-

श्वेति । तत्र यथासंख्यपाठत्वेन समानदेशत्वं एन्द्राग्नम् इत्यादिषूदाहरणेषु

समानदेशत्वं च । तत्राद्यमपि द्विविधम् यथासंख्यपाठः यथासंनिधिपाठ-

बोध्यम् (लो० मा० पृ० २६ ) । ६ सादृश्यम् । ७ अवकाशः ।

८ संनिवेशः । ९ वसतिः । सा च लोकविशेषः इति पौराणिका आहुः ।

लोकश्च सम्यग्वर्तिनां स्वस्वधर्मानुष्ठायिनां जनानामुपभोगस्थानम् ।

अत्रोक्तमग्निपुराणे प्राजापत्यं ब्राह्मणानां स्मृतं स्थानं क्रियावताम् ।

परिचर्यानुकारिणाम् इत्यादि । १० नीतिवेदिनस्तु उपचयापचयहीनं

क्षत्रियाणां तथा चैन्द्र संग्रामेष्वनिवर्तिनाम् ॥ गान्धर्व शूद्रजातीनां
 

साम्यावस्थानम् इत्याहुः ।
 

 
<
स्थाने - >
( अव्ययम् ) १ योग्यम् । यथा स्थाने तच्चलमर्त्य गण्डनृपतेः

भूपतिभिः परोक्षः ( रघु० ७/१३) इत्यादौ स्थाने इत्यस्यार्थः ।

( प्रतापरु०) स्थाने भवानेकनराधिपः सन् (रघु० ५/१६) स्थाने वृता
 

२ सत्यम् । ३ सादृश्यम् । ४ करणार्थ: ( शब्दर ० ) 1
 
130