This page has not been fully proofread.

न्यायकोशः ।
 
स्तोभः—१ [ क ] अर्थशून्यो गानादिवरपरिपूरणार्थः शब्दविशेषः ।
यथा सामवेदे इडा होई इत्यादिः । इदं च वर्णमात्रस्तोभस्य लक्षणम् ।
वाक्यस्तोभस्य तु नव विधा भवन्ति आशास्तिः स्तुतिसंख्याने प्रणवः
परिदेवनम् । प्रैषमन्वेषणं चैव सृष्टिरास्थानमेव च ॥ ( साम्नो गान-
ग्रन्थ० ) इति । [ ख ] अधिकत्वे सत्यग्विलक्षणवर्णः स्तोभः ।
[ग] सभायां विप्रलम्भकेनोच्यमानं प्रकृतार्थानन्वितं का
शब्दराशिं स्तोभ इत्याचक्षते (जै० न्या० अ० ९ पा० २ अधि० ११)/
[घ ] वेदान्तिनस्तु व्यर्थाक्षरवत्त्वम् । यथा अस्तोभमनवद्यं च इत्यादि-
सूत्रलक्षणे स्तोभशब्दस्यार्थः इत्याहु: ( तत्त्वप्रका० १/१/१ पृ० ३ ) ।
 
२ हेलनम् । ३ स्तम्भनम् (हेमच० ) ।
 
स्तोमः – १ आत्मगुणाविष्करणम् । यथा स्तोमयति इत्यादौ सामस्तोमम
स्तौषन् ( श्रुतिः ) इति पुराकल्पे च स्तोमशब्दस्यार्थः । २ समूहः ।
३ यज्ञः । ४ स्तवः । ५ धनम् । ६ मस्तकम् । ७ शस्यम् ।
८ लोहाग्रदण्ड: ( वाच० ) ।
 
स्त्यानम् - चित्तस्याकर्मण्यत्वम् ( सर्व० सं० पृ० ३५५ पात० ) ।
स्त्रीत्वम्—१ योनिमत्वम् । यथा अजा अवा शूद्रा श्यामा चपला ब्राह्मणी
गौरी सुकेशी गर्भिणी इत्यादौ । अत्र प्रातिपदिकप्रकृतिकाः स्त्रियाम्
(पाणि० ४।१।३) इत्यधिकारे विहिताष्टाबादयः स्त्रीत्वं प्रकृत्यर्थ
विशेषणतया बोधयन्ति ( ग० व्यु० स्त्रीप्र० पृ० १९८) /२ भार्या-
त्वम् । यथा आचार्यानी मनावी अर्थी शूद्री इत्यादौ । अत्र स्त्रीप्रत्यय-
प्रतिपाद्यम् भार्यात्वं च संबन्ध विशेषः । तत्रैव निरूपकत्वेन प्रकृत्यर्था
न्वयः ( ग० व्यु० स्त्री० पृ० ११९ ) । तथा च आचार्यनिरूपक-
•भार्यात्ववती इति शाब्दबोध: । एवमुत्तरत्रापि बोध ऊद्यः । अत्र स्त्रीपुं-
धर्मश्च अस्वतन्त्राः स्त्रियः कार्याः पुरुषैः स्वैर्दिवानिशम् । विषयेषु च
• सज्जन्त्यः संस्थाप्या ह्यात्मनो वशे ॥ पिता रक्षति कौमारे भर्ता रक्षति
यौवने । रक्षन्ति स्थाविरे पुत्रा न स्त्री स्वातन्त्र्यमर्हति ।
चैनां व्यये चैव नियोजयेत् । शौचे धर्मेन्नपत्त्यां च पारिणाद्यस्य चेक्षणे ॥
 
अर्थस्य संग्रहे
 
-