2023-12-26 07:39:31 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
१०३५
 
1
 
प्रसङ्गः । अत्र ज्ञानपदेन आरोपितज्ञानं गृह्यते । तेन तादृशि स्वरूपा-

ख्याने नातिव्याप्तिः। भगवत्स्तुत्यादिषु तत्प्रयोगो भाक्तः ( मू० म० मङ्ग०

१ पृ० १०३ - १०४ ) । [ ख ] सर्वोत्कृष्टगुणवत्ता प्रतिपादकशब्दः

( म० वा० पृ० १० ) । [ग] आरोप्यमाणगुणकथनम् इति प्रामा-

णिका आहुः । [ घ] ज्ञानविशेषोपधायकः शब्दः इति नव्या आहुः

( मू० म० मङ्ग० १ (१९०४ ) । २ [क] विधेः फलवादलक्षणा या

प्रशंसा सा स्तुतिः। संप्रत्ययार्थं स्तूयमानं श्रदधीत इति । प्रवर्तिका च ।

फलश्रवणात्प्रवर्तते ( वात्स्या० २१११६४ ) । [ ख ] साक्षाद्विष्यर्थस्य

प्रशंसार्थकं वाक्यम् । यथा सर्वजिता वै देवाः सर्वमजयन् इति विधेः

सर्वस्यायै सर्वस्य जित्यै सर्वमेवैतेनाप्नोति सर्वे जयति इत्येवमादि वाक्यं

स्तुतिः ( गौ० वृ० २१११६४ ) । यथा वा अहरह: संध्यामुपासीत

इति विधेः संध्यामुपासते ये तु सततं शंसितव्रताः । विधूतपापास्ते

यान्ति ब्रह्मलोकमनामयम् ॥ इत्याद्यर्थवादवाक्यं स्तुतिः । [ग]

विधेयस्तावकं वाक्यम् । यथा वायव्य५ श्वेतमालभेत भूतिकामः इति

विधेः वायुर्वै क्षेपिष्ठा देवता वायुमेव स्वेन भागधेयेनोपधावति स

एवैनं भूतिं गमयति (तैत्तिरीयसंहिता २११११ ) ( म० प्र० ४ पृ०

६४ ) इति । इदं वाक्यं हि वायूद्देश्यकः श्वेतपशुकरणको यागः

प्रशस्तः इति प्राशस्त्यबोधनेन विध्यर्थं स्तौति । तथा च विध्युद्देशे-

नैकवाक्यत्वादर्थवादः प्रमाणम् (शाब० मा० ११२/७ ) । [घ ] गु-

णकथनपरमेकं वाक्यम् (जै० न्या० अ० ९ पा० २ अधि० ३ ) ।

३ स्तोत्रम् । तच्च गुणकर्मादिभिः प्रशंसनम् । यथा यो देवदत्तश्चतुर्वेदा-

भिज्ञः इत्युक्ते सर्वे जनाः स्तुतिमवगच्छन्ति । गुणिनमुपसर्जनीकृत्य

तन्निष्ठानां गुणानां प्राधान्येन कथनम् इत्यर्थः (ऋग्वेदभाष्ये सायणः)।

स्तोत्रं चतुर्विधम् द्रव्यस्तोत्रं कर्मस्तोत्रं विधिस्तोत्रं तथैव च । तथैवा-

भिजनस्तोत्रं स्तोत्रमेतच्चतुर्विधम् ॥ (मत्स्यपु० अ० १२३ ) इति ।

 
<
स्तोत्रम्>
[ ] स्तुतिः । [ ख ] प्रगीतमन्त्रसाध्या स्तुतिः (जै० न्या०
 

अ० २ पा० १ अधि० ५) । अत्रेदमवधेयम् । प्रगीतमन्त्रसाध्यं स्तोत्रम् ।

अप्रगीतमन्त्रसाध्यं शस्त्रम् इति स्तोत्रशस्त्रयोर्भेदः इति ।