This page has been fully proofread once and needs a second look.

सृष्टिरित्यभिधीयते (सर्व० सं० पृ० १०९ रामानु० ) । ३ सृष्टिशब्दो-
पेता मन्त्रा यासामिष्टकानामुपधाने विद्यन्ते ता इष्टकाः सृष्टय उच्यन्ते ।
यथा सृष्टीरुपदधाति (जै० न्या० अ० १ पा० ४ अधि० १७) ।
 
<सेक:>?
[क द्रवद्रव्यक्रियानुकूलव्यापारः । यथा वृक्षायोदकमा सिञ्चति
इत्यादौ सिच्धात्वर्थः ( ग० व्यु० का० ४।९४ ) । [ख] क्षरणम्
इति कश्चिदाह ( वाच ० ) ।
 
<सेना>
तत्तद्गजाश्वादिसमुदायः । यथा सेनानिवेशान् पृथिवीक्षितोपि जग्मुः
(रघु० ७१२) इत्यादौ सेनाशब्दस्यार्थः । अत्र सेनात्वं च अनियतदि-
संबन्धिषु गजतुरस्यन्दनेषु परप्रत्यासत्युपगृहीतेषु अवधारितान-
वधारितेयत्तेषु वर्तमाना बहुत्वसंख्या ( न्या० वा० ११ १२/१४५०
२९ ) । अथ वा तत्तदश्वादिविषयकज्ञानविषयत्वम् ( त० प्र० ख०
४ पृ० ५० ) ।
 
<सेवनम् >
१ भजनम् । आराधनम् । अत्रेदं विज्ञेयम् । वैष्णवमते जीवस्य
मोक्षदशायामपि जीवपरमात्मनोः सेव्यसेवकभावो वर्तत एव । तदानीमपि
तयोर्भेदस्य सत्वात् इति । सेवाशब्दस्याप्ययमेवार्थः । सा च सेवा
अङ्कननामकरणभजनभेदान्त्रिविधा ( सर्व० सं० पृ० १३७ पूर्णप्र० ) ।
२ आश्रयणम् । ३ उपभोगः ।
 
<सोपपदा>
सिता ज्येष्ठे द्वितीया तु आश्विने दशमी सिता चतुर्थी द्वादशी
माघे एताः सोपपदाः स्मृताः ॥ (पु० चि० पृ० ४४२) ।
 
<सौत्रान्तिकः>
(बौद्धः ) तदर्थतन्मते च बौद्धशब्दव्याख्याने ( पृ०
६०९ - ६१० ) दृश्ये ।
 
<स्कन्धः>
ह्यणुकादयः स्कन्धाः ( सर्व० सं० पृ० ७२ आई० ) ।
 
<स्तब्धीभावः>
अहमा कारवृत्त्यन्यवृत्तिसामान्याभावः (न्या० र० पृ० २०२ ) ।
 
<स्तुतिः.>
१ [क] गुणवत्तया ख्यापनम् (चि० १ पृ० १०२) ।
यथा निर्विघ्नसमाप्तिकामो देवतास्तुतिमाचरेत् इत्यादौ ग्रन्थे स्तुतिशब्दार्थ :
( चि० मङ्ग० १ पृ० १०० ) ( वै० सा० द० पृ० १) । उत्कर्ष-
वत्तया ज्ञानानुकूल: शब्द: इत्यर्थः । तेन व्यापारान्तरे तादृशि नाति-