न्यायकोशः /1087
This page has not been fully proofread.
१०३३
न्यायकोशः ।
प्रजास नियुङ्क्ते । स च महेश्वरेण नियुक्तो ब्रह्मातिशयज्ञानवैराग्यैश्वर्य-
संपन्नः सर्वप्राणिनां कर्मविपाकं विदित्वा कर्मानुरूपज्ञानवैराग्यभोगायुषः
सुतान् प्रजापतीन्मानसान्मनून् देवर्षिपितृगणान् मुखबाहूरुपादतश्चतुरो
वर्णानन्यानि चोच्चावचानि भूतानि सृङ्घा आशया ( वासना ) नुरूपैर्धर्म-
ज्ञानवैराग्यैश्वर्यैः संयोजयति ( प्रशस्त ० १ पृ० ६) (प० मा०
कालनि० पृ० ९३ ) ( त० व० परि० ५ पृ० १२६ - १२७) ।
अत्र श्रुतिः ब्राह्मणोस्य मुखमासीत् बाहू राजन्यः कृतः । ऊरू तदस्य
यद्वैश्यः पद्भ्यां शूद्रो अजायत (ऋग्वे० पु० सू०) इति । अत्रेदं बोध्यम् ।
एषा ह्यादिसृष्टिरयोनिजैव । तत्रोच्चा धर्मविशेषसहकृतेभ्योणुभ्योवचा चा-
धर्मविशेषसहकृतेभ्यो जायते । ब्रह्मा अयोनिजोतिशयितधर्मविशेषसहकृते-
भ्योणुभ्यो जायते ईश्वराभिध्यानमात्रात् ( प्रशस्त ० टिप्प० पृ० १९) इति ।
महाप्रलयानन्तरं तु न तादृशी सृष्टि: स्यात् । सर्वमुक्तौ सर्वोत्पत्तिनिमित्त -
स्यादृष्टस्यापायात् । सर्वभोपवृत्तौ (मुक्तौ ) प्रयोजनाभावाच्च । न हि
बीजप्रयोजनाभ्यां विना कार्योत्पत्तिः (प० मा० कालनिरू० पृ० ९३ )
( त० व० परि० ५ पृ० १२५ - १२७) इति । अत्रेदं चिन्त्यम् । केचित्
वेदान्तिनः जलोत्पत्तेः पूर्वंमेव तेज उत्पद्यते इत्याचक्षते ( त० व० ) ।
अत्र वयं ब्रूमः । यदाचक्षते तत्तु युक्तमेव । ज्वलने सति जलस्य
नाशः इति भाष्यादौ प्रलयप्रक्रमे प्रतिपादनात् । अतः तेजःसृष्यनन्तर-
मेव जलसृष्टियुक्ता । अन्यथा तेजोनाशानन्तरमेव जलनाश: इति
प्रतिपाद्येत। परंतु तथा न प्रतिपाद्यते इति जलसृष्टेः पूर्वमेव तेजःसृष्टि-
युक्ता इति । तथा च श्रुतिः तस्माद्वा एतस्मादात्मन आकाशः संभूतः ।
आकाशाद्वायुः । वायोरग्निः । अनेरापः । अञ्यः पृथिवी । पृथिव्या ओ-
षधयः । ओषधीभ्योन्नम् । अन्नापुरुषः ( तैत्तिरीय उप० २।१ ) इति ।
अदं विज्ञेयम् । प्रथमतो जगदुत्पत्तौ परमाण्वादयोवयवाः समवायिकार-
णम् । परमाणुद्वयसंयोगादिकमसमवायिकारणम् । ईश्वरतज्ज्ञानेच्छाकृति-
कालकर्मादृष्टादि निमित्तकारणम् इति वैशेषिकमतम् (सि० च ० ) इति ।
एवमन्यत्रापि भावकार्योत्पत्तौ कारणत्रयम्झम् । २ नामरूप विभाग विभक्त-
स्थूलचिदचिद्वस्तुशरीरं ब्रह्म कार्यावस्थम् । ब्रह्मणस्तथाविधस्थूलभावश्च
१३० न्या० को●
-